This page has not been fully proofread.

न्यायकोशः ।
 
७२१
 
शोषयाणि इत्यादौ लोडर्थ: । समर्थना च पराशक्यधर्मिक
स्वशक्यत्वा-
ध्यवसायः । अत्र स्वेतराशक्यं यत् पर्वतोत्पाटनम् तद्धर्मिकस्वशक्यत्वा-
ध्यवसायवान् इत्यन्वयबोध: ( श० प्र० श्लो० ९९ टी० पृ० १४५ ) ।
५ विधिः । यथा पटमानय इत्यादौ लोडर्थः ( श० प्र० श्लो०
९९-१०० टी० पृ० १४५ - १४८) । विधिश्चात्र वक्रिच्छाविषय-
त्वम् । अत्र पटकर्मकमदिच्छा विषयानयनानुकूलकृतिमांस्त्वम् इत्यन्वयः
(तर्का० ४ पृ० ११) (सि० च० ४ पृ० ३२ ) । यथा वा
कटं तावद्भवान् करोतु ग्रामं भवानागच्छतु इत्यादौ (काशिका० ) ।
६ निमन्त्रणम् । यथा अमुत्र भवानास्ताम् अमुत्र भवान् भुङ्काम् इत्यादौ ।
७ आमन्त्रणम् । यथा इह भवान् भुताम् इत्यादौ । ८ अधीष्टः ।
यथा अधीच्छामो भवन्तं माणवकं भवानध्यापयतु इत्यादौ । ९ संप्रश्नः ।
यथा किं नु खलु भो व्याकरणमध्ययै इत्यादौ (काशिका ० ३।३।१६२) ।
१० प्रार्थना । यथा भिक्षां देहि त्वमर्थिभ्यः इत्यादौ लोडर्थ: ( श० प्र० )
( ग० व्यु० ल० पृ० १३९) । यथा वा भवति मे प्रार्थना व्याकरण-
मध्ययै छन्दोध्ययै इत्यादौ ( काशिका० ) । ११ आशंसनम् । यथा
चिरं जीवतु भवानित्यादौ लोडर्थः । यथा वा भवतु ते शिवप्रसादः
इत्यादौ लोडर्थ: । आशंसनं च वक्राशंसनम् । अथ वा अप्राप्तस्येष्ट-
स्यार्थस्य प्राप्तुमिच्छा । अत्रार्थे सूत्रम् आशिषि लिङ्लोटौ ( पा०
सू० ३।३।१७३) इति । तदर्थस्तु आशीर्विशिष्टेर्थे वर्तमानाद्धातो-
लिंङ्लोटौ प्रत्ययौ भवतः (काशिका० ) इति । अत्राधिकं तु आशीः
इति शब्दव्याख्याने दृश्यम् । चैत्रोक्तात् जीवतु भवान् इति वाक्यात्
चैत्राशंसाविषयवर्तमानजी वनवांस्त्वम् इत्येवं बोधः । घटो नीलो भवतु
भवान् सुखी भवतु इत्यादौ तु धातुनैव लक्षणयोपस्थापितायां नीला-
युत्पत्तौ तिङाशंसनीयत्वं प्रतीयते । एवं च आशंसाविषयवर्तमाननीलो-
संपत्तिमान्नीलो घटः इत्यादिकस्तत्र बोध: ( श० प्र० श्लो० ९९
टी० पृ० १४६ ) ।
 

 
लोभः - (दोषः) [क] धर्मविरोधेन परद्रव्येच्छा (गौ० वृ० ४ । १ । ३) ।
तदुक्तम् परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते । अभिलाषो
 
९१ न्या० को०