2023-11-22 05:40:20 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७०५
 
वदन्ति । ह्यस्तनत्वं लङो नार्थः । किं तु अद्यतनभिन्नत्वम् इत्यपरे दर्पण-

कृदादयः वदन्ति (वै० सा० द० पृ० १२९-१३० ) । अनद्यतने

लड् ( पा० सू० ३।२।१११) इति पाणिनिना अनुशिष्टत्वात् इति

भावः । तथा च अपचदित्यादौ वर्तमानध्वंसप्रतियोगि पूर्वदिनवृत्तिपाक-

कृतिमान् इति तादृश प्रतियोग्यनद्यतनकालवृत्तिपाककृतिमान् इति वा

मतद्वये यथाक्रमं बोधः ( श० प्र० श्लो० १०१ टी० पृ० १६० ) ।

अथ वा अनद्यतनातीतत्वं विशिष्टमेव लडर्थः । तच्च शब्दप्रयोगाधिकरण-

दिनाद्यक्षणवृत्तिध्वंसप्रतियोगित्वम् ( ग० व्यु० लका० पृ० १३८ ) ।

यद्वा अनद्यतनत्वम् अतीतत्वं च पृथगेव लडर्थः (तर्का० ४ पृ० ११ )

( सि० च० ) । शब्दप्रयोगाधिकरणदिवसावृत्तित्वे सति शब्दप्रयोग-

कालीनध्वंस प्रतियोगिध्वम् इति कश्चिद्वक्ति । अस्य पुत्रोभवत् इत्यत्र शाब्दि-

कमते शाब्दबोधस्तु वर्तमानध्वंसप्रतियोग्यनद्यतनकालवृत्तिरेतत्संबन्धि-

पुत्रकर्तृकोत्पत्त्यनुकूलो व्यापारः इति (वै० सा० द० ल० पृ० १३० ) ।

 
<
लट्>
(तिङ् ) यादृशतिङ: स्मशब्दोपसंधांनाभावप्रयुक्तः स्वार्थातीतत्व-

बोधकत्वाभावः तादृशी तिङ् लड्डुच्यते । यथा जानाति जानीते पचति

पचते चैत्रः इत्यादौ तिबाख्यातम् । अत्र द्विरुक्तधात्वनाकाङ्क्षवेन

प्रकृत्यर्थपरोक्षत्वनिराकाङ्क्षत्वेन वा विशेषणीयम् । नातो बुभुजे बुभुजाते

इत्यादिस्थलीयलिट्यतिप्रसङ्गः । जानाति जानीते पचति पचते इत्यादौ

तिबादीनामष्टादशानामपि स्मशब्दोपसंधानाभावप्रयुक्तो ज्ञानादिधर्मिका-

तीतत्वबोधस्योपधायकत्वाभावः । स्मशब्दोपसंधाने तु जानाति स्म

इत्यादितोतीतत्वबोधानुभवात् इति लक्षणसमन्वयः (श० प्र० श्लो० ९७

टी० पृ० १४२ ) । उट् द्विविधा परस्मैपदम् आत्मनेपदं चेति । एवम्

अन्या लोडाद्या अपि तिङ: परस्मैपदात्मनेपदभेदेन द्विविधा भवन्ति

म् । वर्तमानकालः वर्तमानसामीप्यं चेति द्विविधोर्थः

( श० प्र० श्लो० ९७ टी० पृ० १४३-१४४ ) । अत्र सूत्रम् वर्तमाने

लट् (पा० सू० ३।२।१२३ ) इति । तदर्थस्तु वर्तमानार्थवृत्तेर्धातो-

लेट्प्रत्ययो भवति (काशिका० ) । वर्तमानकालस्तु तत्तच्छब्दप्रयोगा-

८९ न्या० को ०