न्यायकोशः /757
This page has been fully proofread once and needs a second look.
७०३
मार्गीयाः शक्ता आहुः । [ग] भगवदिच्छा इत्यन्ये संगिरन्ते ।
[घ ] चित्प्रकृतिरपि इति माध्वाः संवदन्ते । एतन्मते लक्ष्मीरीशकोटि-
प्रविष्टा न तु जीवकोटिप्रविष्टा भगवदधीना च । तथा च श्रुतौ लक्ष्म्या
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् इत्युक्त्वा मम
योनिरप्खन्तः समुद्रे ( ऋ० सं० ८/७/११११-१२) इत्युक्तम् । [ङ ]
भगवदंश विशेषः इति वल्लभीया मन्यन्ते । २ शोभा । ३ कान्तिः ।
४ संपत्तिः । ५ स्थलपद्मम् । ६ हरिद्रा । ७ शमी । ८ वारयोषित्
इति काव्यज्ञा आहुः । ९ पीडा । १० औषधम् इति भिषजो वदन्ति ।
लक्ष्यम् –
<लक्ष्यम्>
१ लक्षणया बोध्योर्थः । तलक्षणं च लक्षणानिर्वाहकतात्पर्य -
विषयत्वम् (कृष्ण० ) । यथा गङ्गायां घोष इत्यादौ गङ्गापदस्य लक्षणया
बोध्यस्तीररूपोर्थो लक्ष्यो भवति । २ [क] यदुद्दिश्य लक्षणमुच्यते
तत् । यथा गन्धवत्त्वं पृथिव्या लक्षणम् इत्युक्ते पृथिवी लक्ष्या । यथा
वा लक्ष्यतावच्छेदकमात्रेण लक्ष्यसंकीर्तनमुद्देशः ( त० कौ० ) इत्यादौ
च लक्ष्यशब्दार्थः । [ख] वेदान्तिनस्तु यावदन्यतो व्यावर्तनीयम्
•
यावति चैकः शब्दो व्युत्पादनीयः तलक्ष्यम् इत्याहुः (प्र०प० पृ० २) ।
१३ ज्ञेयम् । ४ अनुमेयम् ( त्रि० ) । ५ वेधार्थमुद्दिश्यमानं शरव्यम्
। इति काव्यज्ञा आहुः ।
(
P
<लग्नः
१ संबन्धविशेषानुयोगी । संबद्धः इति यावत् । यथा कार्यविशेष-
१ . लग्नः इत्यादौ । २ मेषादिराशीनामुदयः इति ज्योतिषज्ञा आहुः ।
३ प्रतिभूः (जामीन) इति व्यवहारशास्त्रज्ञा वदन्ति ( अमरका० २
शूद्र० श्लो० ४४) । अत्रोदाह्रियते प्रसङ्गतः खादको वित्तहीनः
स्यालनको वित्तवान् यदि (स्मृति ० ) (वाच० ) इति । ४ लजितः ।
५ स्तुतिपाठकः इति काव्यज्ञा आहुः । विवाहेपि लग्नशब्दं प्रयुञ्जन्ति
प्राकृतजनाः ।
<लघुत्वम्
१ गुरुत्वाभावः ( सि० च० १ पृ० ३ ) (प० च० पृ० १९ )
( त० दी० १ पृ० ६) । यथा मृदु लघु चेदं द्रव्यम् इत्यादौ लघुत्वम् ।