This page has not been fully proofread.

न्यायकोशः ।
 
६९५
 
योग्यतापत्तेः । न हि तीरं नदी । तस्माद्वाक्यमेव तत्र गभीरनदीतीरस्य
लक्षकम् इति । अत्र सिद्धान्तविदः नैयायिकाः समुत्तिष्ठन्ते । मीमां-
सकैर्यदुक्तं तन । नदीपदस्यैव गभीरनदीतीरात्मके विशिष्टे लक्षणा ।
गभीरपदं तु तात्पर्यग्राहकमेव इति वाक्ये लक्षणा नास्त्येव (मु० ४
पृ० १०१ ) ( न्या० म० ४ पृ० १२) इति । सैन्धवादयश्च
शब्दा: लवणादाविव तुरगादावपि शक्ता एव इति न ते लक्षका
भवन्ति । चटपटायनुकरणस्य हुंफडादिस्तोमस्य च स्वानुभावक-
त्वमपभ्रंशानामिव शक्तिभ्रमादेव । अतो न तेषां लक्षकत्वम् इति
विज्ञेयम् ( श० प्र० श्लो० २३ टी० पृ० ३२-३३)। लक्षकं च
जहःस्वार्थादि विविधलक्षणावत्त्वेनानेकविधम् । तथा हि जहत्स्वार्थलक्षणया
तीरत्यादिना तीरादिबोधकं गङ्गादिपदम् । अजहत्स्वार्थलक्षणया द्रव्यत्वा-
दिना नीलघटत्वादिना च द्रव्यनीलघटादिबोधकं घटादिपदम् । निरूढ-
लक्षणया आरुण्यादिप्रकारेण तदाश्रयद्रव्यबोधकमरुणादिपदम् । आधुनि
कलक्षणया (खारसिकलक्षणया) घटत्वादिना घटादिबोधकं पटपदम् ।
गौण्या लक्षणया अग्निसदृशत्वादिना माणवकबोधकमयादिपदम् ( श०
प्र० श्लो० २४ टी० पृ० ३५ ) इति ।
 
लक्षणम्-१ [क] उद्दिष्टस्यातत्त्वव्यवच्छेदको धर्मः (वात्स्या० ११ ११३) ।
यथा इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानं... प्रत्यक्षम् ( वात्स्या० १११।४ ) ।
इति प्रत्यक्षलक्षणम् । त्रिविधा शास्त्रस्य प्रवृत्तिः उद्देश: लक्षणम् परीक्षा
चेति। तत्र उद्देशानन्तरं लक्षणम् । ततः परीक्षा । लक्षणस्य प्रयोजनं
च सर्वे हि लक्षणमितरपदार्थव्यवच्छेदकम् (न्या० वा० १११/१४
पृ० ८२ ) । पदार्थतत्त्वज्ञानं लक्षणस्य प्रयोजनम् इति तर्कभाषाया-
मुक्तम् (त० भा० पृ० १) । व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयो-
जनमिति दीपिकायाम् (त० दी० पृ० ५) (सि० च० ) । अत्रायं
विशेषो ज्ञेयः । लक्षणस्य व्यावृत्तिप्रयोजनकत्वे सप्तपदार्थेतरत्वा प्रसिद्ध्या
पदार्थसामान्यलक्षणस्य अभिधेयत्वस्य प्रयोजनं शब्दप्रयोग एव । व्यावृ
2त्तरत्रासंभवात् । अन्येषां लक्षणानां तुभयं व्यावृत्तिर्व्यवहारश्च प्रयोजनम्