This page has not been fully proofread.

न्यायकोशः ।
 
६९३
 
ते च स्वाभाविकाः केचित्केचिदागन्तवः स्मृताः । मानसाः केचिदा-
ख्याताः कथिताः केपि कायिकाः ॥ कर्मजाः कथिताः केचिद्दोषजाः
सन्ति चापरे । कर्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविधाः स्मृताः ॥ इति
च । साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाः स्मृताः । सुखसाध्यः
कष्टसाध्यो द्विविधः साध्य उच्यते ॥ ( राजनि० ) इति च । २ कुष्ठौ-
षधम् ( मेदिनी० ) ( वाच० ) ।
 

 
रोदनम् -[क] इष्टवियोगेन अभिघातेन वा यद्वाष्पनिर्मोचनम् तत् ।
यथा सोरोदीत् इत्यादौ ( शाबरभा० १।२।१ पृ० ३९) । इदमत्रा-
नायते । सोरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वं यदश्वशीयत तद्रजत ५ हिरण्यम-
भवत्तस्माद्रजत ९ हिरण्यमदक्षिण्यमभुज हि यो बर्हिषि ददाति पुरास्य
संवत्सरागृहे रुदन्ति तस्माद्बर्हिषि न देयम् (तैत्तिरीयसंहिता १॥५॥१-२ )
इति ।[ ख ] क्रन्दनम् । तच्च दुःखजन्यो ध्वनिविशेषः इति काव्यज्ञा आहुः।
रोधनम् – [क] देशान्तरसंचारविरोधिव्यापारः । यथा गां ब्रजं रुण-
द्धीत्यादौ रुधधात्वर्थो रोधनम् । अत्र संचारविरोधित्वं च संचारानुत्पाद-
प्रयोजकत्वम् । अनुत्पादे प्रधानकर्मगोवृत्तित्वान्वयः । देशान्तरपदार्थैक-
देशे देशविशेषणभेदे व्रजम् इति द्वितीयान्तार्थव्रजप्रतियोगित्वान्वयः ।
रुध्यते गां ब्रजः इत्यादावन्वयबोधः स्वयमूहनीयः (ग० व्यु० का० २
ख० १ पृ० ४५ ) । अत्र व्रजस्याधिकरणत्वाविवक्षायाम् अकथितं च
मौ
(पा० सू० ११४/५१) इत्यनेन गौणकर्मत्वम् । तत्र लकारः ।
कर्मणि दुह्यादेः इत्यनुशासनात् । अत्राधिकं च दोहनशब्दव्याख्याने
ज्ञेयम् । रुध्यते गां व्रजः इत्यादौ व्यापारप्रयोज्यगोनिष्ठानुत्पादसंबन्धि-
संचारावच्छेदकदेशनिष्ठभेदप्रतियोगी ब्रजः इति शाब्दबोधः इति ।
[ख] शाब्दिकास्तु निर्गमप्रतिबन्धद्वारा ब्रजायधिकरणकचिरस्थित्यनु-
कूलव्यापारः । यथा व्रजमवरुणद्धि गामित्यादौ रुधेरर्थः इत्याहुः ।
अत्र व्रजे गौस्तिष्ठति तत्र तां निर्गमप्रतिबन्धेन चिरं स्थापयति इति
संप्रत्यय: (ल० म० सुबर्थ० का० २ पृ० ९२ ) ।
रोहिणी – कल्याणीशब्दे दृश्यम् ।
 
.