न्यायकोशः /743
This page has not been fully proofread.
न्यायकोशः ।
-
-
!
च
रूपत्वम् — नीलसमवेतगुणत्वापरजाति: ( सर्व० सं० पृ० २२० औ० ) ।
रूपम् – १ (गुणः ) [ क] चक्षुर्मात्रग्रहणो योर्थस्तत् । तच्च बाह्यैकेन्द्रिय-
ग्राह्यम् (वै० उ० ३।१।१ ) द्रव्याद्युपलब्धिकारणम् नयनसहकारि च
भवति ( भा०प० श्लो० १०१ ) ( प्रशस्त ० ) । परमाणुगतं तु रूपं
न प्रत्यक्षम् । एवं रसगन्धादिकमपि बोध्यम् । अत्र प्राञ्चो नैयायिका
आहुः । द्रव्यगुणकर्मसामान्यानां चाक्षुषं स्पा 'नं च प्रत्यक्षं प्रति रूपं
• कारणम् इति कार्यकारणभावः । तेन वायौ रूपाभावान स्पार्शनप्रत्यक्षम्
इति । नव्यास्तु चाक्षुषे द्रव्यप्रत्यक्षे एव रूपं कारणम् इति कार्यकारण-
भावः । तेन वायौ रूपाभावेपि स्पार्शनप्रत्यक्षमुपपद्यते इत्यङ्गीचक्रुः
(भा० प० श्लो० ५७) (मु० १ पृ० ११३ ) । अत्रेदं बोध्यम् ।
रूपस्य चाक्षुषप्रत्यक्षे च मध्यमं महत्परिमाणम् उद्भूतत्वम् अनभि-
भूतत्वम् रूपत्वं च प्रयोजकम् । तत्र महत्परिमाणं तु सामानाधिकरण्य-
संबन्धेन इति ज्ञेयम् । तेन परमाणौ महत्परिमाणाभावेन तद्वृत्तिरूपस्य
न्।
प्रत्यक्षनिवारणम् । चक्षुर्वृत्तिशुक्लरूपस्यानुद्भूतत्वेन तादृशरूपस्य प्रत्यक्ष-
निवारणम् । वैश्वानरे मरकतकिरणादौ च विद्यमानस्य शुक्लरूपस्य
वैश्वानरादिसंबद्ध पार्थिवरूपेणाभिभवात्प्रत्यक्ष निवारणम् । रसस्पर्शादौ
रूपत्वविरहाच्चाक्षुषत्वाभावः (वै० उ० ४।११८ ) (मु० १
तेजोनि० पृ० ७८) इति । चक्षुर्मात्रग्रहणो योर्थ इत्यत्र अर्थशब्देन
धर्मी भावभूत उच्यते। तेन गन्धत्वादौ गन्धाद्यभावे च नातिव्याप्तिः
(वै० उ० ३।१।१ ) । द्रव्यादित्रयमेवार्थः इति काश्यप निर्णयः । अतो
रूपादिसामान्यैर्नातिव्याप्तिर्भविष्यति ॥ (ता० र० श्लो० ४१-४२) इति ।
काश्यपः कणादः । [ख] चक्षुर्मात्रबहिरिन्द्रियग्राह्यजातिमत् ( वै० उ०
७७१।६) । तादृशी जातिश्च रूपत्वादिः । [ग] नीलसमवेतगुणवा-
परजातिमत् ( सर्व० पृ० २२० औलू ० ) । [ध ] चक्षुर्मात्र-
ग्राह्यो विशेषगुणः (त० कौ० ) (त० सं० ) ( प्रशस्त ० ) । तदर्थश्च
इतरेन्द्रियाग्राह्यत्वं मात्रपदार्थः । चक्षुषश्चेतरत्वे ग्रहे चान्वयः । अथ वा
9. चित्रगुरित्यादौ गोपदस्थेव ग्राह्यपदस्यैव चक्षुरितरेन्द्रियाग्राह्यत्व विशिष्ट
चक्षुर्माह्यत्वविशिष्टे लक्षणा । अवशिष्टपदे तात्पर्यग्राहके । उभयत्र
८५ न्या० को?