न्यायकोशः /742
This page has been fully proofread once and needs a second look.
यथा कुशलपदे तैलपदे च इत्याहुः (ल० म० आकाङ्क्षावि० पृ० १४ ) ।
अत्र तैलपदस्य तिलविकारद्रव्ये शक्तस्य सार्षपादौ निरूढलक्षणा । शिष्टं
तु निरूढलक्षणाशब्दे दृश्यम् ।
<रूढिः
१ (शब्दशक्तिः ) [ क ] समुदायशक्तिः ( त० दी० ४ )। यथा
मण्डप इत्यादिपदे रूढिः शक्तिः । अत्र मकारादिवर्णानुपूर्वीकत्वेन शक्त्या
जनाश्रयो बोध्यते इति विज्ञेयम् । [ ख ] शाब्दिकास्तु शास्त्रकृत्कल्पिता-
वयवार्थाप्रतीतौ यदर्थनिरूपितं प्रकृतिप्रत्ययसमुदायमात्रे बोधकत्वम्
तत्पदे सा तदर्थनिरूपिता रूढिः । यथा मणिनपुरादौ इत्याहुः ( ल० म०
●
आकाङ्क्षादिवि० पृ० १२ ) । अत्र कुमारभट्ट आह लब्धात्मिका सती
रूढिर्भवेद्योगापहारिणी । कल्पनीया तु लभते नात्मानं योगबाधतः ॥ इति ।
तदर्थस्तु लब्धात्मिका कप्ता शक्तिर्योगबाधिका । कल्पनीया तु योग-
बाध्या ( वाच० ) इति । २ जन्म । ३ प्रसिद्धिः इति काव्यज्ञा आहुः ।
<रूढिलक्षणा
निरूढलक्षणाशब्दवदस्यार्थोनुसंधेयः ।
-
रूप -
<रूप>
( धातुः ) प्रमाणोपन्यासेन स्वरूपादिकथनम् । यथा रूपयति अरु-
रूपत् इत्यादौ धात्वर्थः ।
<रूपकम्
१ मूर्तम् । २ शुक्कादिवर्णविशेषः । ३ आकारः । ४ साहित्यशा
••
स्त्रज्ञास्तु अभिनयप्रदर्शको दृश्यकाव्यविशेषः । यथा शाकुन्तला दि इत्याहुः ।
रूपकस्य दशविधा भेदाः । नाटकमथ प्रकरणं भाणव्यायोगसमवकार-
डिमा: । ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ॥ इति / तत्य
रूपकसंज्ञाहेतुमाह तद्रूपारोपातु रूपकम् इति । तद्दृश्यं काव्यम् इति ।
श्लो० २७३ - २७४) । ५ आलंकारिकास्तु अर्थालंकार विशेषः
यथा नटे रामादिस्वरूपारोपात रूपकम् इत्युच्यते ( सा० द० परि०६
•
इत्याहुः । तल्लक्षणं तु रूपकं रूपितारोपाद्विषये निरपहवे ( सा०
द० परि० १० श्लो० ६६९) इति । ६ गणकास्तु गुञ्जात्रयपरिमाणम्
इत्याहुः । अत्रोच्यते संचाली प्रोच्यते गुजा तास्तिस्रो रूपकं भवेत्
( युक्तिक ० ) इति । ७ राजतो नाणकविशेष इत्याधुनिका व्यवहरन्ति ।
६८८
11