This page has not been fully proofread.

६८२
 
न्यायकोशः ।
 
-
 
रसः – १ (गुणः ) [ क ] रसनग्रहणो योर्थः सः (वै० उ० ३ । १ । १
प्रशस्त० पृ० १२ ) । अत्र अर्थशब्देन धर्मी भावभूत उच्यते । तेन
रसत्वादौ रसाद्यभावे च नातिव्याप्तिः । स च बाह्यैकेन्द्रियप्रायः
(बै० उ० ३।१।१ ) रसनसहकारी च ( प्रशस्त० पृ० १२ ) ।
लक्षणं तु रसत्वमेव । तच्च रसनग्राह्यगुणविभाजकधर्मवत्त्वम् (वाक्य ० १
पृ० ७) (वै० उ० ७ । १।६ ) । अत्र व्युत्पत्तिः रस्यते आस्वाद्यते
इति रसः ( कर्मणि प्रत्ययः ) । ख रसनग्राह्यो गुणः ( त० भा० )
( त० सं० ) । अत्र निष्कर्षस्तु रसनग्रहणवृत्तिगुणत्वावान्तरजाति-
मत्त्वम् इति । तेन नातीन्द्रियरसाद्यसंग्रहः (वै० उ० ३/१/१९) ।
 
गरसनमात्रग्राह्यजातिमान् ( त० को० १ पृ० ४ ) । अत्र
 
रसनग्राह्यां रसादिगतां सत्तां जातिमादाय द्रव्यादावतिव्याप्तिवार
मात्र इति पदं दत्तम् । [घ ] रसवृत्तिगुणत्वसाक्षाद्व्याप्यजातिमान
(वै० उ० ७।१।६ ) । सा च जातिः रसत्वम् । रसः षड़िधः मधुरः
अम्लः लवणः कटुः कषायः तिक्तश्च इति । द्रव्यगतमधुरादिषड़िधरसानां
कारणादिकमुच्यते सुश्रुतग्रन्थे । स खल्वाप्यो रसः शेषभूतसंसर्गाद्वि-
भक्तः षोढा विभज्यते । तद्यथा मधुरोम्लो लवणः कटुकस्तिक्तः कषायः
इति । ते च भूयः परस्परसंसर्गात् त्रिषष्टिधा (६३) भिद्यन्ते । तत्र
(१) भूम्यम्बुगुणबाहुल्यान्मधुरः । (२) भूम्यग्निगुणबाहुल्यादम्लः /
(३) तोयाग्निगुणबाहुल्यालवणः । (४) वाय्वग्निगुणबाहुल्यात्कटुकः
(५) वाय्वाकाशगुणबाहुल्यात्तिक्तः । (६) पृथिव्यनिलगुणबाहुल्या
त्कषायः इति । तत्र मधुराम्ललवणा वातघ्नाः । मधुरतिक्तकषायाः
पित्तघ्नाः । कटुतिक्तकषायाः श्लेष्मघ्नाः । तत्र वायुरात्मनैवात्मा पित
माग्नेयम् श्लेष्मा सौम्यः इति । त एव रसाः स्वयोनिवर्धनाः अन्ययोनि
प्रशमनाश्च ( सुश्रुते० रसविशेष ० ) । केचिदाहुः । अग्नीषोमीयत्वाज्जगत
• रसा द्विविधाः सौम्याः आग्नेयाश्च । तत्र मधुरतिक्तकषायाः र
कटुम्बुलवणा आग्नेयाः । मधुराम्ललवणाः स्निग्धाः गुरवश्च । कटुतित
कषाया रूक्षा लघवश्च । सौम्याः शीता: आग्नेयाश्चोष्णा: (सुश्रु० )
 
सौम्या