This page has not been fully proofread.

न्यायकोशः ।
 
६७३
 
तत्समवेतगुणकर्म सामान्यविशेषाणां समवायस्य च सर्वदा प्रत्यक्षं जन्यते ।
युञ्जानाख्ययोगिनस्तु चिन्तया प्रत्यक्षं जन्यते (मु० १) (त०
कौ० ) इति । तथा च एकत्र ध्यानापेक्षा अन्यत्र तु ध्यानापेक्षा नास्ति
( त० व० ) ( प्रशस्त० गु० पृ० ४३ ) ।
 
योगरूढम् - ( नाम शक्तपदं वा ) [ क ] यत्र पदे अवयवशक्तिविषये
समुदायशक्तिरप्यस्ति तत् (मु० ४ पृ० १७९ ) । अत्र व्युत्पत्तिः
योगो रूढिश्चैते एकसजातीयार्थबोधकतया स्तोस्य (अच् ) इति ।
[ ख ] अवयव समुदाय एतदुभयशक्ति कमेकजातीयार्थप्रतिपादकं पदम्
( सि० च० ख० ४ पृ० ३१ ) । [ग] योगरूढिभ्यां परस्परसह-
कारेणार्थप्रतिपादकं पदम् । यथा पङ्कजादिपदम् (नील० ४ पृ० ३१ ) ।
एवम् धेनुपदं च ( त० प्र० ४ पृ० ३२ ) । अत्र च पङ्काज्जायते
इत्यवयवशक्त्या पङ्कजनिकर्तृत्वेन रूढिशक्त्या च कमलत्वेन कमलं
बोधयतीति पङ्कजपदं योगरूढम् ( सिं० च० ४ पृ० ३१ ) । तथा
च समुदायशक्त्या ( रूढिशक्तया) उपस्थिते पद्मे अवयवार्थपङ्कजनि-
कर्तुरभेदेनान्वयो भवति इति मणिकृन्मतम् ( श० प्र० श्लो० २७ ) ।
तेन पङ्कजातेपि कुमुदादौ स्थलपद्मे च न पङ्कजपदप्रयोगप्रसङ्गः इति
मणिकृन्मताभिप्रायः (त० प्र० ४ पृ० ३१ ) । अत्रायं विशेषो ज्ञेयः ।
यत्र रूट्यर्थस्य बाधः प्रतिसंधीयते कुमुदत्वेन बोधे च तात्पर्यम् तत्र
लक्षणया कुमुदादेर्बोध: । यत्र तु कुमुदत्वेन रूपेण बोधे न तात्पर्य-
ज्ञानम् पद्मत्वस्य च बाधः तत्रावयवशक्तिमात्रेण कुमुदबोधनिर्वाहः ।
यत्र तु स्थलपद्मादाववयवार्थबाधः तत्र समुदायशक्तया पद्मत्वेन रूपेण
बोधः । यदि तु स्थळपद्मं विजातीयमेव तदा पङ्कजपदालक्षणयैव स्थल-
पद्मबोध: (मु० ४ पृ० १८०) इति । [घ] यन्नाम स्वावयववृत्ति-
लभ्यार्थेन समं स्वार्थस्यान्वयबोधकृत् तन्नाम योगरूढम् । यथा पङ्कज
कृष्णसर्प अधर्म इत्यादिपदम् । तद्धि स्वान्तर्निविष्टानां पङ्कादिशब्दानां
वृत्तिलभ्येन पङ्कजनिकर्त्रादिना समं स्वशक्यस्य पद्मादेरन्वयानुभावकम् ।
पङ्कजम् इत्यादितः पङ्कजनिकर्तृ पद्मम् इत्यनुभवस्य सर्वसिद्धत्वात् ।
रूढपदास्वयं विशेषः । यद्रढमपि मण्डपरथकारादिपदम् तत् योगार्थ-
८५ न्या० को०