2023-11-22 03:59:52 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६७२
 
न्यायकोशः ।
 
घटः इति वाक्यजन्यशाब्दबोधे घटांशे भूतलवृत्तित्वावगा हिरवस्यानु-

भवसिद्धतया भूतले न घटः इति वाक्यजन्यशाब्दबोधे घटांशे भूतल -

वृत्तित्वाभावोवश्यमभ्युपगन्तव्यः इति । इदमत्राकूतम् । भूतले न घटः

इति वाक्यजन्यस्याप्रामाण्यज्ञानानास्कन्दितबोधस्य भूतले घटः इत्यादि-

वाक्यजन्यघटादिविशेष्यकभूतलाद्याधेयत्वप्रकारकबोधविरोधितया नञ्-

पदं विना यत्र धर्मिणि यस्य विशेषणतया भानं यादृशसमभिव्याहारा -

द्भवति तादृशसमभिव्याहारस्थले नञ्सचे तत्र धर्मिणि तदभावः प्रतीयते

इति नियमोङ्गीकर्तव्यः । अयमेव प्रतियोग्यभावान्वयौ तुल्यौ

। इति न्यायस्यार्थः इति (गा० व्यु० का० १) । यथा वा प्रवृत्तिं प्रतीष्ट-

साधनताज्ञानस्य हेतुतायां प्रविष्टा योगक्षेमसाधारणी साधनता । नैयापि-

 

कमते संध्यावन्दनादिनित्यकर्मणामर्थवादोपस्थापितब्रह्मलोकावाप्तिप्रत्यवा

यानुत्पत्तिरूपफलकल्पनेन तादृशफलस्य तु स्वतः पुरुषार्थत्वाभावेन

तत्रेच्छानुत्पत्तौ कथं तादृशकर्मसु प्रवृत्तिः इत्याशङ्कायाः समाधानप्रसङ्गे

नेत्थमुक्तम् । यथा हि नित्ये कृते प्रत्यवायप्रागभावस्तिष्ठति तदभावे

तदभावः एवम् प्रत्यवायाभावसत्त्वे दुःखप्रागभावसत्त्वम् तदभावे तदभावः

( दुःखरूपः ) इति योगक्षेमसाधारणकारणताया दुःखप्रागभावं प्रत्यप

सुवचत्वात् इति । अत्र योगे अप्राप्तप्राप्तौ क्षेमः सिद्धस्य रक्षणम्

इत्यर्थोनुसंधेय: ( दि० गु० विधिनि० पृ० २२८) । २ वेदान्ति-

नस्तु अलभ्यलाभसहितं लब्धपरिरक्षणम् । यथा अनन्याश्चिन्तयन्तो

मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥

( गीता० अ० ९ श्लो० २२) इत्यादी इत्याहुः । अत्रार्थे योगश्च
 

च इति समाहारद्वन्द्वो ज्ञेयः ।
 
C
 

 
<
योगजः - >
( संनिकर्षः ) योगाभ्यासजनितो धर्मविशेषः । स चादृष्टविशेषः ।

अयं चालौकिके योगिप्रत्यक्षे कारणभूतः अलौकिकसंनिकर्षविशेषः ।

सच युक्तयुञ्जानेति द्विविधयोगिभेदतो द्विविध: ( भा०प० श्लो० ६६)

( सि० च० ) । तत्र युक्ताख्ययोगिनो योगजधर्मसंनिकर्षेण वस्तुमात्रस्य

अन्यात्मनाम् अतीन्द्रियाणामपि आकाशदिक्कालपरमाणुवायुमन साम्