This page has not been fully proofread.

६७२
 
न्यायकोशः ।
 
घटः इति वाक्यजन्यशाब्दबोधे घटांशे भूतलवृत्तित्वावगा हिरवस्यानु-
भवसिद्धतया भूतले न घटः इति वाक्यजन्यशाब्दबोधे घटांशे भूतल -
वृत्तित्वाभावोवश्यमभ्युपगन्तव्यः इति । इदमत्राकूतम् । भूतले न घटः
इति वाक्यजन्यस्याप्रामाण्यज्ञानानास्कन्दितबोधस्य भूतले घटः इत्यादि-
वाक्यजन्यघटादिविशेष्यकभूतलाद्याधेयत्वप्रकारकबोधविरोधितया नञ्-
पदं विना यत्र धर्मिणि यस्य विशेषणतया भानं यादृशसमभिव्याहारा -
द्भवति तादृशसमभिव्याहारस्थले नञ्सचे तत्र धर्मिणि तदभावः प्रतीयते
इति नियमोङ्गीकर्तव्यः । अयमेव प्रतियोग्यभावान्वयौ तुल्यौ
। इति न्यायस्यार्थः इति (गा० व्यु० का० १) । यथा वा प्रवृत्तिं प्रतीष्ट-
• साधनताज्ञानस्य हेतुतायां प्रविष्टा योगक्षेमसाधारणी साधनता । नैयापि-

 
कमते संध्यावन्दनादिनित्यकर्मणामर्थवादोपस्थापितब्रह्मलोकावाप्तिप्रत्यवा
•यानुत्पत्तिरूपफलकल्पनेन तादृशफलस्य तु स्वतः पुरुषार्थत्वाभावेन
तत्रेच्छानुत्पत्तौ कथं तादृशकर्मसु प्रवृत्तिः इत्याशङ्कायाः समाधानप्रसङ्गे
नेत्थमुक्तम् । यथा हि नित्ये कृते प्रत्यवायप्रागभावस्तिष्ठति तदभावे
तदभावः एवम् प्रत्यवायाभावसत्त्वे दुःखप्रागभावसत्त्वम् तदभावे तदभावः
( दुःखरूपः ) इति योगक्षेमसाधारणकारणताया दुःखप्रागभावं प्रत्यप
सुवचत्वात् इति । अत्र योगे अप्राप्तप्राप्तौ क्षेमः सिद्धस्य रक्षणम्
इत्यर्थोनुसंधेय: ( दि० गु० विधिनि० पृ० २२८) । २ वेदान्ति-
• नस्तु अलभ्यलाभसहितं लब्धपरिरक्षणम् । यथा अनन्याश्चिन्तयन्तो
मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥
( गीता० अ० ९ श्लो० २२) इत्यादी इत्याहुः । अत्रार्थे योगश्च
 
च इति समाहारद्वन्द्वो ज्ञेयः ।
 
C
 
योगजः - ( संनिकर्षः ) योगाभ्यासजनितो धर्मविशेषः । स चादृष्टविशेषः ।
• अयं चालौकिके योगिप्रत्यक्षे कारणभूतः अलौकिकसंनिकर्षविशेषः ।
सच युक्तयुञ्जानेति द्विविधयोगिभेदतो द्विविध: ( भा०प० श्लो० ६६)
( सि० च० ) । तत्र युक्ताख्ययोगिनो योगजधर्मसंनिकर्षेण वस्तुमात्रस्य
अन्यात्मनाम् अतीन्द्रियाणामपि आकाशदिक्कालपरमाणुवायुमन साम्