2023-11-02 14:21:00 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६४८
 
न्यायकोशः ।
 
बोधः । संसारे मुक्तिकालप्रागभावाधिकरणनिरूपिततद्भिन्नकालावृत्तित्व-

विशिष्टव्यापकताबोधस्त्वार्थः । कालगतमर्यादात्वं च स्वस्वोत्तरकालो-

भयप्रागभावाधिकरणकालभवो यः समभिव्याहृतपदार्थः तदनधिकरणत्वम्

(ल० म० सुबर्थ० पृ० ११३ ) । द्वितीया देशरूपा यथा प्रयोगा-

त्प्रभृत्या काश्या वृष्टो देवः इत्यादौ देशे मर्यादा । अत्र प्रयागादिकाशी-

मर्यादकवृष्टिकर्ता देवः इति बोधः । वृष्टौ प्रयागादिकाशीपश्चिमदेश-

निरूपितस्वभिन्नावृत्तित्वसमानाधिकरणव्यापकताबोधस्त्वार्थः । अत्र देश-

गतमर्यादात्वं तु स्वखोत्तरदेशयोः प्रयागतदाद्यन्तरालदेशवृत्तिसमभि-

व्याहृतपदार्थवृष्ट्याद्यनधिकरणत्वम् इत्याहुः । २ न्यायपथस्थितिः इति
 

नीतिशास्त्रज्ञा आहुः । ३ कूलम् इति काव्यज्ञा आहुः ।
 

 
<
मलः>
१ आत्माश्रितो दुष्टभावो मलः । स च मिथ्याज्ञानादिभेदात्पञ्च

विधः । तदप्याह मिथ्याज्ञानमधर्मश्च सक्तिर्हेतु युतिस्तथा । पशुत्वमूलं

पञ्चैते तन्त्रे हेया विविक्तितः ॥ ( सर्व० सं० पृ० १६३ नकु० ) ।

२ मलं वदन्ति कालस्य मासं कालविदोधिकम् (पु० चि० पृ० १२) ।

 
 
<
मलमासः- >
चान्द्रमासो ह्यसंक्रान्तो मलमासः प्रकीर्तितः ( पु० चि०
 

पृ० १२) ।
 

 
<
मलिम्लुचः - >
शुक्लप्रतिपदादिदर्शान्तमासमतिक्रम्य सूर्यो राश्यन्तरं गच्छति

तदा पूर्वो मलिम्लुच: द्वितीयः संक्रान्तियुक्तः प्राकृतः । इन्द्राग्नी यत्र

हूयेते मासादिः स प्रकीर्तितः । अग्नीषोमौ स्थितौ मध्ये समाप्तौ पितृ-

सोमकौ ॥ तमतिक्रम्य तु यदा रविर्गच्छेत्कदाचन । आद्यो मलिम्लुचो

ज्ञेयो द्वितीयः प्राकृतः स्मृतः ॥ (पु० चि० पृ० १२ ) ।

 
<
महती>
भरणी पितृपक्षे या महती परिकीर्तिता (पु० चि० पृ० ३८५ ) ।

 
<
महत्तत्वम्- >
मूलप्रकृतेर्बुद्धिरूपः परिणामविशेषः ( सां० का० ) ।

 
<
महत्त्वम्->
( परिमाणम्) इदं महत् इति प्रतीतिसाक्षिकः परिमाण-

विशेषः । यथा महत्व षड़िधे हेतुः ( भा० प० श्लो० ५९) इत्यादौ ।

तल्लक्षणं च मानव्यवहारासाधारणकारणत्वम् । द्रव्यसाक्षात्कारकारण-
-