This page has not been fully proofread.

६४८
 
न्यायकोशः ।
 
बोधः । संसारे मुक्तिकालप्रागभावाधिकरणनिरूपिततद्भिन्नकालावृत्तित्व-
विशिष्टव्यापकताबोधस्त्वार्थः । कालगतमर्यादात्वं च स्वस्वोत्तरकालो-
भयप्रागभावाधिकरणकालभवो यः समभिव्याहृतपदार्थः तदनधिकरणत्वम्
(ल० म० सुबर्थ० पृ० ११३ ) । द्वितीया देशरूपा यथा प्रयोगा-
त्प्रभृत्या काश्या वृष्टो देवः इत्यादौ देशे मर्यादा । अत्र प्रयागादिकाशी-
मर्यादकवृष्टिकर्ता देवः इति बोधः । वृष्टौ प्रयागादिकाशीपश्चिमदेश-
निरूपितस्वभिन्नावृत्तित्वसमानाधिकरणव्यापकताबोधस्त्वार्थः । अत्र देश-
गतमर्यादात्वं तु स्वखोत्तरदेशयोः प्रयागतदाद्यन्तरालदेशवृत्तिसमभि-
व्याहृतपदार्थवृष्ट्याद्यनधिकरणत्वम् इत्याहुः । २ न्यायपथस्थितिः इति
 
नीतिशास्त्रज्ञा आहुः । ३ कूलम् इति काव्यज्ञा आहुः ।
 
मलः – १ आत्माश्रितो दुष्टभावो मलः । स च मिथ्याज्ञानादिभेदात्पञ्च
विधः । तदप्याह मिथ्याज्ञानमधर्मश्च सक्तिर्हेतु युतिस्तथा । पशुत्वमूलं
पञ्चैते तन्त्रे हेया विविक्तितः ॥ ( सर्व० सं० पृ० १६३ नकु० ) ।
२ मलं वदन्ति कालस्य मासं कालविदोधिकम् (पु० चि० पृ० १२) ।
मलमासः- चान्द्रमासो ह्यसंक्रान्तो मलमासः प्रकीर्तितः ( पु० चि०
 
पृ० १२) ।
 
मलिम्लुचः - शुक्लप्रतिपदादिदर्शान्तमासमतिक्रम्य सूर्यो राश्यन्तरं गच्छति
• तदा पूर्वो मलिम्लुच: द्वितीयः संक्रान्तियुक्तः प्राकृतः । इन्द्राग्नी यत्र
हूयेते मासादिः स प्रकीर्तितः । अग्नीषोमौ स्थितौ मध्ये समाप्तौ पितृ-
सोमकौ ॥ तमतिक्रम्य तु यदा रविर्गच्छेत्कदाचन । आद्यो मलिम्लुचो
ज्ञेयो द्वितीयः प्राकृतः स्मृतः ॥ (पु० चि० पृ० १२ ) ।
महती – भरणी पितृपक्षे या महती परिकीर्तिता (पु० चि० पृ० ३८५ ) ।
महत्तत्वम्- मूलप्रकृतेर्बुद्धिरूपः परिणामविशेषः ( सां० का० ) ।
महत्त्वम्-१ ( परिमाणम्) इदं महत् इति प्रतीतिसाक्षिकः परिमाण-
विशेषः । यथा महत्व षड़िधे हेतुः ( भा० प० श्लो० ५९) इत्यादौ ।
तल्लक्षणं च मानव्यवहारासाधारणकारणत्वम् । द्रव्यसाक्षात्कारकारण-
-