न्यायकोशः /701
This page has not been fully proofread.
न्यायकोशः ।
६४७
(वै० ६।२।१५ ) । [ख] प्राणध्वंसः । [ग] चरमप्राणशरीर-
संयोगध्वंस: ( गौ० वृ० १११११९) (नील० पृ० ४२) (दि० १
पृ० २० ) ( वै० वि० ६।२।१५ ) । प्राणशरीरसंयोगे चरमत्वं च
स्वसजातीयशरीर वृत्तिप्राणसंयोगप्रागभावानधिकरणत्वम् ( राम० १
पृ० २० ) । [घ ] शरीरमनोविभागः (वै० उ० ६।२।१५ ) ।
यथा न जायते म्रियते वा कदाचित् ( गीता० २ । २० ) इत्यादौ ।
उपात्तानां जातिविशिष्टदेहेन्द्रिय मनोहंकारबुद्धिवेदनानां परित्यागो मरणम्
इति सांख्या आहुः ( सांख्य० कौ० ) । स्कन्धनाशो मरणम् इति बौद्धा
आहुः । केचित्तु देहात्मनोर्विच्छेदः प्राणवायोरुत्क्रमणरूपो व्यापार-
विशेषो वा मरणम् इत्याहुः ।
०
-
मर्यादा – १ [ क ] सीमा । सा द्विविधा कालरूपा देशरूपा च । तत्र
कालरूपा यथा आरभ्य तस्यां दशमीं तु यावत् प्रपूजयेत्पर्वतराजपुत्रीम्
4 इत्यादौ यावदर्थो मर्यादा । अत्र यावच्छब्देन पूजारूपक्रियायां शुक्र-
दशमीनिष्ठतादृशसीमास्वनिरूपकत्वं प्रत्याय्यते । तावतैवार्थतः शुक्लदशम्यां
मर्यादात्वं लभ्यते । अत्र च प्रागभाव एव यावत्पदार्थः । द्वितीयार्थः
प्रतियोगित्वम् अनुयोगित्वं वा । तत्र तत्प्रकृत्यर्थदशम्या अन्वयः ।
तावता दशमीप्रतियोगिकप्रागभावलाभः । तस्य स्वप्रतियोग्यवृत्तित्व-
विशिष्टव्यापकतासंबन्धेन पूजारूपसमभिव्याहृतक्रियायामन्वयः ( ग०
व्यु० का० २ ख० २ पृ० ७५ ) । देशरूपा मर्यादा यथा काशीतः
कौशिकीं यावद्याति इत्यादौ यावदर्थो मर्यादा । अत्र यावत्पदेन च
कौशिक्यनधिकरणकत्वे सति काशीपूर्वकौशिकी पश्चिमदेशव्यापकत्वं गमने
प्रत्याय्यते । तत्र द्वितीयार्थोवधित्वम् अवधिमत्त्वं वा । तस्य च प्रतीची -
त्वादावन्वयः । निष्कर्षः पूर्ववत्स्वयमूहनीयः (ग० व्यु० का० २
ख० २ पृ० ७६ ) । [ख ] वैयाकरणास्तु स्थित्यनतिक्रमः । मर्यादा
द्विविधा कालरूपा देशरूपा च । तत्राद्या कालरूपा यथा आमुक्तेः
संसारः इत्यादावाङोर्थः । अत्र मुक्तिपदं तत्कालपरम् । मर्यादामर्यादि-
भावसंबन्ध आयोलः पञ्चम्यर्थः । एवं च मुक्तिमर्यादकः संसारः इति