2023-11-02 10:25:41 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 

 
त्तमप्रज्ञा इत्थमचीकथन् । भिक्षुपादप्रसारणन्यायेन क्षणभङ्गाद्यभिधान-

मुखेन स्थायित्वानुकूलवेदनीयत्वानुगतसर्वसत्यत्वभ्रमव्यावर्तनेन सर्व-

शून्यतायामेव पर्यवसानम् । अतः तत्त्वं सदसदुभयानुभयात्मकचतु-

ष्कोण विनिर्मुक्तं शून्यमेव । दृष्टार्थव्यवहारश्च स्वप्नव्यवहारवत् संवृत्या

संगच्छते । अत एवोक्तम् परिव्राटामुकशुनामेकस्यां प्रमदातनौ । कुणपः

कामिनी भक्ष्य इति तिस्रो विकल्पनाः ॥ इति । तदेवं भावनाचतुष्टय-

वशान्निखिलवासनानिवृत्तौ परं निर्वाणं शून्यरूपं सेत्स्यति इति वयं कृतार्थाः

नास्माकमुपदेश्यं किंचिदस्ति इति । शिष्यैस्तावद्योगश्चाचारश्च इति द्वयं

करणीयम् । तत्राप्राप्तस्यार्थस्य प्राप्तये पर्यनुयोगो योगः । गुरूक्तस्यार्थ-

स्याङ्गीकरणमाचारः । तत्र गुरूक्तस्याङ्गीकरणादुत्तमाः पर्यनुयोगस्याकर-

णादधमाश्च । अत एतेषां माध्यमिका इति प्रसिद्धिः ( सर्व० सं०

पृ० २९ - ३० ) । (२) केषांचित् बौद्धविशेषाणां योगाचार इति संज्ञा ।

गुरूक्तभावनाचतुष्टयं बाह्यार्थस्य शून्यत्वं चाङ्गीकृत्य आन्तरस्य शून्यत्वं

कथमिति पर्यनुयोगस्य करणादेतेषां योगाचारप्रथा । एषा हि तेषां

प्रक्रिया । स्वयंवेदनं तावदङ्गीकार्यम् । अन्यथा जगदान्ध्यं प्रसज्येत ।

स्वव्यतिरिक्तग्राह्य ग्राहकविरहात्तदात्मिका बुद्धिः स्वयमेव स्वात्मरूप-

प्रकाशिका प्रकाशवदिति । ग्राह्यग्राहकयोरभेदश्च मन्तव्यः । यद्वेद्यते येन

वेदनेन तत्ततो न भिद्यते । यथा ज्ञानेनात्मा । वेद्यन्ते तैश्च नीलादयः ।

यश्चायं ग्राह्यग्राहकसंवित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमसि द्वित्वा-

वभास इव भ्रमः । अत्राप्यनादिरविच्छिन्नप्रवाहाभेदवासनैव निमित्तम् ।

वस्तुत: वेद्यवेदकाकारविधुराया अपि बुद्धेर्व्यवहर्तृपरिज्ञानानुरोधेन विभिन्न-

ग्राह्यग्राहकाकाररूपवत्तया तिमिराद्युपहताक्षणां केशेन्द्रनाडीज्ञानाभेदवद-

नाद्युपप्लववासनासामर्थ्याद्व्यवस्थोपपत्तेः पर्यनुयोगायोगात् । तस्माहुद्धिरेवा-

नादिवासनाबशाद नेकाकारावभासत इति सिद्धम् । ततश्च प्रागुक्तभावना-

प्रचयबलान्निखिलवासनोच्छेदविगलित विविध विषयाकारोपप्लव विशुद्धविज्ञा-

नोदयो महोदयः । अयमेव मोक्षः इति । (३) सौत्रान्तिका इत्थं मन्यन्ते ।

बाह्यमर्थजातमस्त्येव । तच्चानुमीयते । यथा पुष्ट्या भोजनमनुमीयते यथा
 

 
·
 

७७ न्या० को.