This page has not been fully proofread.

न्यायकोशः ।
 
६०७
 
ष्वनुपनिबद्धेषु चात्ममनसोः संयोगविशेषाद्धर्मविशेषाच्च यत्प्रातिभं ज्ञानं
यथात्मनिवेदनमुत्पद्यते तदार्षमित्याचक्षते ( प्रशस्त० पृ० ३२ ) ।
अविद्यापि चतुर्विधा संशयविपर्ययस्वप्नानध्यवसायलक्षणा । तत्र यदैङ्गिकं
तद निन्द्रियजम् । लिङ्गदर्शनात्संजायमानं लैङ्गिकम् ( प्रशस्त ० पृ० २६ ) ।
इन्द्रियजमपि द्विविधम् । सर्वज्ञीयमसर्वज्ञीयं च । सर्वज्ञीयं योगजधर्म-
लक्षणया प्रत्यासत्या तत्तत्पदार्थसार्थज्ञानम् । असर्वज्ञीयं च प्रत्यक्षं
द्विविधम् । सविकल्पकम् निर्विकल्पकं च । तत्र सविकल्पकं ज्ञानं न
प्रमाणम् इति कीर्तिदिङ्गागादयो मन्यन्ते । स्वमते तु संविकल्पकम-
पीन्द्रियार्थ संनिकर्ष जत्वात्प्रत्यक्ष निर्विकल्पके प्रमाणं चेति (वै० उ०
८/११२ ) ( प्रशस्त० पृ० २३) । प्रकारान्तरेण विभागो यथा ।
बुद्धिः प्रथमतो द्विविधा अनुभूतिः स्मृतिश्च । अनुभूतिरपि कणादमते
द्विविधा प्रत्यक्षम् अनुमितिश्च । प्रत्यक्षमपि घ्राणजादिभेदेन षड्डिधम् ।
सविकल्पकनिर्विकल्पकभेदेन तथा लौकिकालौकिकभेदेन च द्विवि-
धम् । अनुमितिरपि केवलान्चयिकेवलव्यतिरेक्यन्वयव्यतिरेकिरूपत्रि-
विधानुमानजन्यत्वात्रिविधा । स्मृतिश्चोपेक्षानात्मक निश्चयाधीनसमाना-
कारकभावनाख्यसंस्काराधीनैकविधैव । प्रकारान्तरेणापि बुद्धिर्द्विविधा
प्रमा अप्रमा चेति । संशय निश्चयभेदेनापि बुद्धिर्द्विविधा । वैशेषिकमते
सादृश्यज्ञानस्थले पदज्ञानस्थले च तदुत्तरं लिङ्गपरामर्शोत्पत्त्यैवानुमिति-
र्भवति । प्रत्यक्षानुमानातिरिक्तस्य प्रमाणान्तरस्यानभ्युपगमात् (३०
वि० ८।१।११) । वेदान्तिमते बुद्धिः सात्त्विकराजसतामसभेदेन त्रिविधा।
तन्त्र सात्त्विकी यथा प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं
द्धार्थ सात्त्विकी ॥ राजसी यथा यया
धर्ममधर्मे च कार्ये चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ
राजसी ॥ तामसी यथा अधर्म धर्ममिति या मन्यते तमसावृता ।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ (गीता अ० १८
श्लो० ३०-३२ ) इति । बुद्धेः पञ्च गुणा यथा इष्टानिष्टविपत्तिश्च व्यव-
साय: समाधिता। संशयः प्रतिपत्तिश्च बुद्धेः पञ्च गुणान्विदुः ॥