2023-11-02 10:21:54 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
द्विविधा नित्या अनित्या च । तत्र नित्या परमात्मनः । सा च साक्षा-

त्काराभिधा प्रत्यक्षप्रमात्मिकैव । अनित्या तु जीवस्य । अनित्या

द्विविधा । स्मृतिः अनुभवश्च । तौ च प्रत्येकं द्विविधौ । यथार्थों अय-

थार्थौ च । अनुभवश्च चतुर्विधः । प्रत्यक्षम् अनुमितिः उपमितिः

शाब्दबोधश्च । तत्र यथार्थानुभव: प्रमा इत्युच्यते । अर्था

अप्रमा इति भ्रमः इति चोच्यते । प्रत्यक्षमपि सविकल्पकनिर्विकल्पक -

भेदेन द्विविधम् । तत्र निर्विकल्पकं न प्रमा नापि भ्रमः । संशय

प्रत्यभिज्ञा उपनीतभान इत्यादिकं तु सविकल्पकप्रत्यक्ष एवान्तर्भवति ।

अथ प्रकारान्तरेण विभागः प्रदर्श्यते । बुद्धिर्द्विविधा । स्मृति: अनु-

स्मृतिरनित्या जीवात्ममात्रसमवेता च । अनुभवस्तु प्रत्यक्षानुमित्युपमिति-

भवश्च । उभयमपि प्रत्येकं यथार्थायथार्थभेदेन द्विविधम् । तत्र सर्वा

प्रत्यक्षं नित्यानित्यभेदेन द्विविधम् । तत्र नित्यं प्रत्यक्षं परमात्मसमवेतम्

शाब्दबोधन चतुर्विधः । तत्र यथार्थानुभवः शास्त्रे प्रमा इत्युच्यते ।

यथार्थमेव । अनित्यं प्रत्यक्षं तु जीवात्मसमवेतम् यथार्थमयथार्थे च ।

अनुमिति उपमिति शाब्दबोध एतन्त्रयं चानित्यमेव जीवात्ममात्रसमवेतं च

इति । इदं च यथार्थमयथार्थं चेत्युभयविधमप्यस्ति । प्रत्यभिज्ञोपनीत-

भानादिकं चानित्य प्रत्यक्ष एवान्तर्भवति इति नाधिक्यम् । वैशेषिकनये

बुद्धिर्द्विविधा विद्या चाविद्या च । सा चानेकप्रकारा। अर्थानन्त्यात्

चाविया (प्रशस्त० ० २३)। तत्र विशेषणवद्विशेष्यनिकर्ष

प्रत्यर्थनियतत्वाच । तस्याः सत्यप्यनेकविधत्वे समासतो द्विधा । विद्या

लिङ्गपरामर्श इत्यादिरूपगुणजन्या विद्या । दूरत्वपित्तादीन्द्रियदोषजन्य

अविद्या ( त० व० पृ० २१३ ) । तत्र विद्या चतुर्विधा प्रत्यक्षलैङ्गिक

स्मृत्यर्षलक्षणा । आर्षस्वरूपं च गालवाघृषीणातीतानग

ज्ञानमार्षम् । अत्र नैयायिकाः इदं च योगिनां योगजधर्मसहकारेण

जायमाने अलौकिक प्रत्यक्ष एवान्तर्भवति न चतुर्थम् इत्याहु: ( त०

पृ० २२० ) । आर्षस्वरूपं प्रकारान्तरेणान्यत्रोक्तम् । आम्नायविधा-
च पृ०
 

तृणामृषीणामतीतानागतवर्तमानेष्वर्थेष्वतीन्द्रियेषु धर्मादिषु ग्रन्थोपनिबद्धे-

 
व०