This page has not been fully proofread.

न्यायकोशः ।
 
६०५
 
पेक्षम् एनम् इति
 
ज्ञानम् । एवमन्यदपि बुद्ध्यपेक्षमूहनीयम् ( वै०
उ० ८।२।१ पृ० ३६८ - ३६९ ) । [ ख ] आत्माश्रयः प्रकाशः
(प० च० पृ० ३०) । [ग] आत्मगुणत्वे सत्यर्थप्रकाश: (त० प्र० )
( त० भा० ) ( त० कौ० ) ( ता० र० श्लो० २९ ) । [घ ] सर्व-
व्यवहारहेतुर्ज्ञानम् (त० सं० ) । यथा भोगः (वात्स्या० १११।९ ) ।
भोगश्च सुखदुःखानुभवः । सर्वव्यवहारेत्यस्यार्थश्च व्यवहारः बुबोध-
यिषापूर्वकवाक्यप्रयोगः । तथा च तादृशव्यवहारजनकतावच्छेदकजाति-
मती समुदायार्थः । जातिपर्यन्तानुधावनेन निर्विकल्पकादौ नाव्याप्तिः ।
बुबोधयिषापूर्वकवाक्यप्रयोगे वाक्यार्थज्ञानत्वेन कारणत्वात् । कारण-
तावच्छेदकज्ञानत्वमादाय सर्वत्र लक्षणसमन्वयः (वाक्य० १ पृ० ९ ) ।
अथवा सर्वे ये व्यवहारा आहारविहारादयः तेषां हेतुर्बुद्धिः इत्यर्थः
(सि० च० १ पृ० १९) । बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् ( गौ०
१।१।१५) । बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्यायाः (वै० उ० ८।१।१ )
( प्रशस्त० गु० पृ० २३ ) ( बै० उ० ३१११२ ) ( ३११११८ ) ।
यथा सा मणिकर्णिका स विश्वेश्वरः इत्यादिः (त० कौ० ) । बुद्धे
र्ज्ञानपर्यायत्वकथनेन सांख्यमतनिरासः । तन्मते बुद्धेरन्तःकरणस्वरूप-
त्वम् । न्यायमते तु मनोभिन्नान्तःकरणे मानाभावाहूद्धेरन्तःकरणभिन्नत्व-
मेवेति बोध्यम् (सि० च० १ पृ० १९) । सांख्यास्तु सत्त्वरजस्तमो
गुणात्मिकाया अनादिपरिणामिनित्यव्यापिप्रकृतेर्जडाया आद्यः परिणामो-
न्तःकरणरूपो महत्तत्त्वापरपर्यायो बुद्धिः (कु० १) (वै० उ० ८।१।१ )
( सि०
१० च० पृ० १९) अध्यवसायो वा बुद्धिः इत्याहुः (सांख्यसू०
अ० २ सू० १३) । योयं कर्तव्यम् इति निश्चयः (वृत्तिः ) चिति-
संनिधानादापन्नचैतन्यायाः सोध्यवसायः इति तल्लक्षणम् । मायावादि-
नस्तु निश्चयात्मकवृत्तियुतमन्तःकरणं बुद्धिः इत्याहुः । अत्रोच्यते ।
निश्चयात्मा निराकारो बुद्धिरित्यभिधीयते इति वाशिष्ठे ( सांख्य
भा० १।६४) । मनो बुद्धिरहंकारश्चित्तं करणमान्तरम् । संशयो निश्चयो
गर्वः स्मरणं विषया अमी ॥ इति (वेदा० सा० ) । न्यायमते बुद्धि-