This page has not been fully proofread.

६०४
 
न्यायकोशः ।
 
बाह्रैकैकेन्द्रियग्राह्यगुणत्वम्-[क] चक्षुस्त्वगुभयाग्राह्य बहिरिन्द्रियग्राह्य-
परिमाणान्यगुणसमवेतजातिमत्त्वम्
 
( दि० गु० पृ० १९३ ) । यथा
 
रूपादेर्बाह्यैकैकेन्द्रियग्राह्यगुणत्वम् । तादृशी जातिश्च रूपत्वादिः । एतादृश-
जातिघटितलक्षणकरणेन संख्यादौ नातिव्याप्तिः । अतीन्द्रियरूपादौ
नाव्याप्तिश्च इति ज्ञेयम् । बाह्यैकैकेन्द्रियग्राह्यगुणाश्च रूपम् रसः गन्धः
स्पर्शः : शब्दश्च इति ( भा०प० गु० श्लो० ९४ ) (प० मा० ) ।
[ख ] बहिरिन्द्रियद्वयावेद्यबहिरिन्द्रियवेद्यगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम्
 
( प० मा० ) ।
 
बुद्ध: -- १ वेदतत्कर्मणोर्निन्दाकर्ता भगवतोवतारविशेषः । स च विष्णो-
चतुर्विंशत्यवतारमध्य एकविंशोवतारः । यथोक्तम् ततः कलौ संप्रवृत्ते
संमोहाय सुरद्विषाम् । बुद्धो नाम्ना जिनसुतः कीकटेषु भविष्यति ॥
• ( श्रीमद्भाग० स्क० १ अ० ३ श्लो० २४ ) इति । तन्मतं तु बौद्ध-
शब्दव्याख्यानावसरे संक्षेपतः प्रदर्शयिष्यते तत्तत्र दृश्यम् । २ जागरितः
 
इति वेदान्तिन आहुः । ३ पण्डितश्च इति काव्यज्ञा आहुः ।
 
-
 

 
बुद्धिः – १ धर्मपत्नीभेद इति पौराणिका वदन्ति ( भा० आ० अ० ६६ ) ।
२ (गुणः ) [क] बुद्धित्वसामान्यवती ( प्र० प्र० ) ( त० कौ ० १
पृ० ६ ) । सा चात्ममात्रवृत्तिः । न त्वन्तःकरणवृत्तिः । अव्याप्यवृत्तिः
मनोमात्रगम्या च । लक्षणं च बुद्ध्यादिपदवाच्यत्वम् । अनुभवसिद्ध
ज्ञानवजातिरेव वा (गौ० वृ० ११ १/१५) । अथवा जानामि इत्यनु-
व्यवसायगम्यज्ञानत्वम् ( त० दी० १ पृ० १४ ) ( सि० च०
पृ० १६) । अथवा संबन्धावच्छिन्न प्रकारतानिरूपितप्रकारितासमाना-
घरगुत्वव्यायजातिमत्त्वम् ( ल० व० ) । बुद्धिविशेषाः केचि
दुच्यन्ते । संनिकृष्टे वस्तुनि तावत् अयम् इति बुद्धिरुत्पद्यते । विप्रकृष्टे
वस्तुनि एषः इति बुद्धिः । क्रियायां स्वतन्त्रोयम् इति बुद्धिमपेक्ष्य
इति कर्तृत्वोपरक्ता बुद्धिः । करणव्यापारविषयत्वबुद्धिमपेक्ष्य कृतम् इति
कर्मबुद्धिः । अयं भुजिक्रियायां कर्ता प्रयोजकश्वायम् इति बुद्धिमपेक्ष्य
भोजय इति बुद्धिः । नियोज्यनियोक्तृव्यापारस्य विषयोयम् इति बुद्धय