2023-10-30 08:19:24 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
५८५
 
<प्रसादः—– >
कर्तृत्व निर्वाहकं
 
वरप्रदानम् ( कि० व०६) । यथा प्रसादं

कुरु देवेश इत्यादौ । कर्तृत्वनिर्वाहश्च फलप्राध्या भवति ।

 
<
प्रसारणम्>
(कर्म) [क] शरीरविप्रकृष्टहेतुः कर्मविशेष: ( त० सं० )

(त० कौ० ) । ऋजुतासंपादकम् इत्यर्थः ( त० दी० ) । लक्षणं च

दूरदेशसंयोगजनकक्रियानुकूल क्रियात्वम् (ल० व० ) । [ ख ] एवमाकु-

ञ्चिताङ्गानां यत्कर्मोत्पद्यते पुनः । अनारम्भकसंयोगनाशकं तत्प्रसारणम् ॥

( त० व० पृ० २४१ ) । [ग] आकुञ्चनविपर्ययेण संयोगविभागो-

त्पत्तौ येन कर्मणावयवी ऋजुः संपाद्यते तत् प्रसारणम् ( प्रशस्त० पृ०

३७ ) । [घ ] प्रसारणत्वजातिमत् । [ङ] विस्तार करणक्रियाविशेषः

इति केचित् ( वाच० ) ।
 

 
<
प्रसिद्धिः>
१ ज्ञानम् । २ ख्यातिः । ३ भूषणम् । ४ टङ्कारः इति

केचिदाहुः (वाच० )।
 
-
 

 
<
प्रसुप्तत्वम्>
प्रबोधसहकार्यभावेनानभिव्यक्तिः (सर्व० सं० पृ०३५९ पात ० ) ।

 
<
प्रस्तावना - >
१ आरम्भः
यथा आर्य बालचरित प्रस्तावनाडिण्डिमः

( वीरच० ) इत्यादौ । २ आमुखाख्यं नाटकाङ्गम् इति साहित्यशास्त्रज्ञा

आहुः (वाच० )। तदुक्तम् आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि

सा ( सा० द० परि० ६ श्लो० २८७ ) इति ।
 

 
<
प्रस्थानम्>
१ गमनम् । २ अभीष्टवस्तुचालनम् इति मौहूर्तिका आड्डः

( धर्मसिन्धौ प० ३ पृ० ११७ ) ।
 
-
 
पा
 

 
<
प्रागभावः>
( अभावः ) [क] प्रतियोगिसमवायिकारणवृत्तिः प्रतियोगि-

जनकः भविष्यति इति व्यवहारहेतुरभावः ( त० दी० ) ( न्या० म०

पृ० ११ ) ( त० प्र०) । यथा इह कपाले घटो भविष्यति इति

प्रतीतिसाक्षिकः अभावः (त० कौ ० ) (प्र०प्र०) । [ ख ] उत्पत्तेः

प्राकू समवायिकारणे कार्यस्य संसर्गाभावः । [ग] अनित्यः अनादि-

तमः प्रागभावः ( सर्व० सं० पृ० २३२ अक्षपा० ) । अत्रेदं बोध्यम्।

उत्पन्नस्यैव पुनरुत्पत्त्यापत्तिनिवारणार्थ प्रागभावः अवश्यं स्वीकार्यः ।

सच कार्यस्योत्पत्तेः पूर्व कार्यस्य समवायिकारणे तिष्ठति ( त० व०
 

७४ न्या० को ०
 
.