This page has not been fully proofread.

न्यायकोशः ।
 
५८५
 
प्रसादः—– कर्तृत्व निर्वाहकं
 
वरप्रदानम् ( कि० व०६) । यथा प्रसादं
कुरु देवेश इत्यादौ । कर्तृत्वनिर्वाहश्च फलप्राध्या भवति ।
प्रसारणम् – (कर्म) [क] शरीरविप्रकृष्टहेतुः कर्मविशेष: ( त० सं० )
(त० कौ० ) । ऋजुतासंपादकम् इत्यर्थः ( त० दी० ) । लक्षणं च
दूरदेशसंयोगजनकक्रियानुकूल क्रियात्वम् (ल० व० ) । [ ख ] एवमाकु-
ञ्चिताङ्गानां यत्कर्मोत्पद्यते पुनः । अनारम्भकसंयोगनाशकं तत्प्रसारणम् ॥
( त० व० पृ० २४१ ) । [ग] आकुञ्चनविपर्ययेण संयोगविभागो-
त्पत्तौ येन कर्मणावयवी ऋजुः संपाद्यते तत् प्रसारणम् ( प्रशस्त० पृ०
३७ ) । [घ ] प्रसारणत्वजातिमत् । [ङ] विस्तार करणक्रियाविशेषः
इति केचित् ( वाच० ) ।
 
प्रसिद्धिः – १ ज्ञानम् । २ ख्यातिः । ३ भूषणम् । ४ टङ्कारः इति
केचिदाहुः (वाच० )।
 
-
 
प्रसुप्तत्वम् – प्रबोधसहकार्यभावेनानभिव्यक्तिः (सर्व० सं० पृ०३५९ पात ० ) ।
प्रस्तावना - १ आरम्भः
। यथा आर्य बालचरित प्रस्तावनाडिण्डिमः
( वीरच० ) इत्यादौ । २ आमुखाख्यं नाटकाङ्गम् इति साहित्यशास्त्रज्ञा
आहुः (वाच० )। तदुक्तम् आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि
सा ( सा० द० परि० ६ श्लो० २८७ ) इति ।
 
प्रस्थानम् – १ गमनम् । २ अभीष्टवस्तुचालनम् इति मौहूर्तिका आड्डः
( धर्मसिन्धौ प० ३ पृ० ११७ ) ।
 
-
 
पा
 
प्रागभावः – ( अभावः ) [क] प्रतियोगिसमवायिकारणवृत्तिः प्रतियोगि-
जनकः भविष्यति इति व्यवहारहेतुरभावः ( त० दी० ) ( न्या० म०
पृ० ११ ) ( त० प्र०) । यथा इह कपाले घटो भविष्यति इति
प्रतीतिसाक्षिकः अभावः (त० कौ ० ) (प्र०प्र०) । [ ख ] उत्पत्तेः
प्राकू समवायिकारणे कार्यस्य संसर्गाभावः । [ग] अनित्यः अनादि-
तमः प्रागभावः ( सर्व० सं० पृ० २३२ अक्षपा० ) । अत्रेदं बोध्यम्।
उत्पन्नस्यैव पुनरुत्पत्त्यापत्तिनिवारणार्थ प्रागभावः अवश्यं स्वीकार्यः ।
सच कार्यस्योत्पत्तेः पूर्व कार्यस्य समवायिकारणे तिष्ठति ( त० व०
 
७४ न्या० को ०
 
.