न्यायकोशः /638
This page has been fully proofread once and needs a second look.
इति । प्रसज्य क्रियागुणौ ततः पश्चान्निवृत्तिं करोति इति महाभाष्य-
प्रामाण्यात् ( ल० म० ) । केचित्तु प्रसज्य प्रसक्तिं संपाद्य (आरो-
व्येति यावत् ) प्रतिषेधः इत्याहुः । अत्रायं विवेकः । प्रसक्तं हि प्रति-
षिध्यते इति न्यायेनारोपितप्रसङ्ग
त्यादावपि वायौ रूपारोपं कृत्वैव निषेधो नञा बोध्यते इति ( वाच ०
० ) ।
अत्रायमण्यन्यो विशेषः । प्रसज्यनञा तत्पुरुषो भावकृदन्तपदयोग एव ।
न घटादिपदयोगे । वादिनामविवाद इत्यायुदाहरणेषु भावकृदन्तस्यैवो-
त्तरपदत्वात् इति संप्रदायविद आहुः ( श० प्र० ) । [ख ] शाब्दि-
•
कलखं भक्षयेदित्यादौ नञर्थः प्रसज्यप्रतिषेधः इत्याहुः । तदुक्तमभियुक्तैः
कादयस्तु यस्यार्थस्य धात्वर्थेनान्वयो नञा प्रत्याय्यते सः । यथा न
प्रसज्यप्रतिषेधः स्याक्रियया सह यत्र नञ् इति । अत्र विशेषः । न
•
कलअं भक्षयेदित्यत्र बलवदनिष्टासाधनत्व विशिष्टेष्टसाधनत्वरूपस्य विषय-
र्थस्याभावो नञा भक्षणक्रियायां बोध्यते । तेन विधेरप्राधान्यम् नअर्था-
भावस्य च प्राधान्यम् । तेन तत्र क्रियापदान्वयी नञ् प्रसज्यप्रतिषेधार्थकः ।
तदुक्तम् अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोसौ
क्रियया सह यत्र नञ् ॥ इति ।
पुरा इत्यादावमुक्तेत्यत्र नञः प्रसज्यप्रतिषेधार्थत्वमिति विधेयत्वमेवो-
चितम् इति । न कलञ्जमित्यत्र गुरुमते तु कलञ्जभक्षणाभावविषयकं
कार्यम् इति बोधेनाभावविशेष्यकबोधेपि प्रतिषेधस्य प्राधान्यात् तथा
त्वम् । तथा च तन्मते कचित् विधेरप्राधान्येन कचिञ्च प्रतिषे
धस्य प्राधान्येन इति व्यस्तमेव प्रसज्यप्रतिषेधप्रबोधप्रयोजकम् इति
बोध्यम् ( वाच० ) ।
<प्रसञ्जनम्
१ [क] आपादनम् । यथा अत्र घट: स्यात् तर्छुपलभ्येत
इति । ख ] आहायोरोपः ( राम० ) । यथा यदि पर्वतो निर्वह्निः
स्यात्तर्हि निर्धूमः स्यात् इति । २ क्वचित् तुल्यत्वेनाभावयोः प्रतिभाव-
वचनम् प्रसञ्जनम् ।
५८४
Ca