This page has not been fully proofread.

न्यायकोशः ।
 
-
 
प्रसङ्ग समः – ( जाति: ) [ क ] दृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थाना-
त्प्रसङ्गसमः ( गौ० ५२११९ ) । साधनस्यापि साधनं वक्तव्यमिति
प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः । क्रियाहेतुगुणयोगी क्रियावाँलोष्ट
इति हेतुर्नापदिश्यते । न च हेतुमन्तरेण सिद्धिरस्तीति ( वात्स्या ०
५।१।९ ) । अत्र वृत्तिः । दृष्टान्तस्य कारणं प्रमाणम् । तदनपदेशो-
नभिधानम् । अभिधानं चानतिप्रयोजकम् । तथा च दृष्टान्तस्य साध्य-
वत्त्वे प्रमाणाभावात् प्रत्यवस्थानम् अर्थः । यद्यपीदं सदुत्तरमेव तथापि
दृष्टान्ते प्रमाणं वाच्यम् तत्रापि प्रमाणान्तरम् इत्यनवस्थया प्रत्यवस्थाने
तात्पर्यम् । तदुक्तमाचार्यैः अनवस्थाभासप्रसङ्गः प्रसङ्गसमः इति ।
एतन्मते हेतोर्हेत्वन्तरम् इत्यनवस्थापि प्रसङ्गसम एव । पूर्वमते तु हेत्व-
नवस्थादिकं वक्ष्यमाणाकृतिगणेष्वन्तर्भूतम् इति विशेषः । अनवस्था-
देशनाभासोयम् इति विज्ञेयम् ( गौ० वृ० ५/१/९) । [ख] साधन-
परंपराप्रश्नः । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वाल्लोष्ट वदित्यादौ
क्रियावत्वे क्रियाहेतुगुणवस्वं साधनम् । तत्र किं साधनम् । न हि
साधनं विना कस्यचिसिद्धिरस्ति । एवं तत्रापि किं साधनम् इत्यादि
(नील० पृ० ४४ ) । [ग] अनवस्थाभासप्रसङ्गः प्रसङ्गसमः इत्यु-
दयनाचार्या : आहुः (गौ० वृ० ५१११९) । तथा चोक्तम् सिद्धे
दृष्टान्तहेत्वादौ कारणप्रश्नपूर्वकम् । अनवस्थाभासवाचः प्रसङ्गसम-
जातिता ॥ इति ( ता० ₹० परि० २ श्लो० ११३) ।
प्रसङ्गी – सवनीयपुरोडाशः (जै० न्या० अ० ११ पा० ३ अधि० १६)।
प्रसज्यः - १ प्रसज्यप्रतिषेधवदस्यार्थोनुसंधेयः । अत्रार्थे भीमो भीमसेनवत्
प्रसज्यप्रतिषेधशब्दस्यान्त्यलोपे प्रसज्य इति रूपं सिद्ध्यति । २ प्रसञ्जन-
कर्मभूतः । आपाद्यः इति यावत् ।
 
-
 
५८३
 
प्रसज्यप्रतिषेधः - (नञर्थः ) [क] संसर्गाभावः । तदर्थश्च क्रिया-
समभिव्याहृतनञ्प्रतिपादोत्यन्ताभावः इति ( ल० म० ) । यथा चैत्रो
न पचतीत्यादौ नञर्थ: (चि० ) । अत्र पाककृत्यभाववाश्चैत्रः इति
शाब्दबोधः । यथा वा भूतले घटो नास्तीत्यादौ नञर्थोत्यन्ताभावः ।