2023-10-30 08:00:30 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५७४
 
न्यायकोशः ।
 
इति ( प० मा० पृ० ९३ ) । अन्यत्र चेत्थमुक्तम् । चतुर्णा महाभूतानां

संहारविधिरुच्यते । ब्राह्मेण मानेन वर्षशतान्ते वर्तमानस्य ब्रह्मणोपवर्ग-

काले संसारे खिन्नानां सर्वप्राणिनां निशि विश्रान्त्यर्थ सकलभुवनाधिपते-

महेश्वरस्य संजिहीर्षासमकालं शरीरेन्द्रियभूतोपनिबन्धकानां सर्वात्मता

नामदृष्टानां वृत्तिनिरोधे सति महेश्वरेच्छात्माणुसंयोगजकर्मभ्यः शरीरे-

न्द्रियकारणाणुविभागेभ्यः तत्संयोगनिवृत्तौ तेषां परमाण्वन्तो विनाशः ।

तथा पृथिव्युदकज्वलनपवमानानामपि महाभूतानामनेनैव क्रमेणोत्तर-

स्मिन्नुत्तरस्मिन् सति पूर्वस्य पूर्वस्य विनाशः । ततः प्रविभक्ताः परमाण-

वोबतिष्ठन्ते । धर्माधर्मसंस्कारानुविद्धा आत्मानस्तावन्तमेव कालम्

( प्रशस्त ० १ पृ० ६) । न्यायमते स द्विविधः । खण्डप्रलय: महा-

सि० दी० पृ० ७६ ) ( दि० ४ पृ० १८९) । सचागमप्रतिपाद्यः ।

प्रलयश्च । तत्राद्यः सकलकार्यद्रव्यानाधारकार्याधिकरणसमयः ( न्या०

आगमस्तु नाहो न रात्रिर्न नभो न भूमिर्नासीत्तमो ज्योतिरभून्नचान्यत्

इति ( दि० ४ पृ० १८९) । द्वितीयस्तु सकलभावकार्यलयः ।

[ख ] त्रैलोक्यनाशः इति मायावादिन आहुः ( वेदा० परि० विषयप

पृ० ८१ ) । [ग] पौराणिकास्तु भूतादिलयाधारः कालविशेषः

प्रलयः । स च चतुर्विधः । नित्यः नैमित्तिकः प्राकृतः आत्यन्तिकश्च

इत्याहुः । मायावादिनां मतेपि प्रलयश्चतुर्विधः । नित्यः प्राकृतः

आत्यन्तिकश्चेति । तत्र नित्यप्रलयः सुषुप्तिः । प्राकृतप्रलयस्तु

विनाशनिमित्तकः सकलकार्यविनाशः । नैमित्तिकप्रलयस्तु
 
नैमित्तिकः
कार्यब्रह्म-
कार्यब्रह्मणो
 

निमित्तकः सर्वमोक्षः । स चैकजीववादे युगपदेव । नानाजीवादे

दिवसावसान निमित्तक स्त्रैलोक्यमात्रप्रलयः । चतुर्थस्तु ब्रह्मसाक्षात्कार-

क्रमेण । सर्व एकीभवन्ति इत्यादिश्रुतेः (वेदा० प० विषयप० पू०

८३-८४ ) इति । किंच युगप्रलयः मनुप्रलयः दिनप्रलयः महाप्रलय-

श्वेत भेदेन चतुर्विधः प्रलयः इत्यपि पौराणिका वदन्ति ।
 
(
 
[]
 

१० प्रलीनेषु निरुपलवविवेकख्यातिपरिपाकवशात्कार्यकारणात्मकानां प्रधाने