This page has not been fully proofread.

न्यायकोशः ।
 
५७३
 
च श्रुतिः । सा च धाता यथापूर्वमकल्पयत् ( ऋ० सं० १०/१९०/३ )
इति ( सि० च० १ पृ० ९) ( त० दी० वायुनि० पृ० १०) । मीमां-
सकास्तु संसारप्रवाहस्य बीजाकरन्यायेनानादित्वादनन्तत्वाच्च प्रलयसद्भावे
मानाभावः इत्यूचुः ( सि० च० १ पृ० ९ ) । इदानीं प्रलयक्रमः
कथ्यते । साकारोपासनापरिवासितचेतसो यतयस्ते हिरण्यगर्भपदवी-
मनुप्राप्यापवृज्यन्ते इत्यागमात् ब्रह्मणो जीवभूतस्य ब्राह्मशतवर्षपर्याप्तस्या-
पवर्गसमये शरीरिणां विश्रान्त्यर्थमीश्वरस्य संजिहीर्षा जायते । तदनन्तरं
सर्वजीवगतादृष्टवृत्तिनिरोधः । यथा सुषुप्तौ कतिपयजीवानां युगपददृष्ट-
वृत्तिनिरोधः तथा प्रलये सर्वेषामेव जीवानां युगपददृष्टवृत्तिनिरोधो
भवति ( त० व० पृ० १२५) । तत आत्मसंयोगतो देहाद्यारम्भक-
परमाणुषु ( प्रथमं पृथिवीपरमाणुषु ततो जलादिपरमाणुषु च ) कर्मोत्पद्यते ।
ततः परमाणुद्वयविभागः । ततः परमाणुद्वयसंयोगनाशः । ततो ह्यणुक-
नाशः । ततस्त्र्यणुकनाशः । एवं चतुरणुकादिनाशक्रमेण महापृथिव्या-
दीनां नाशः । अत्र प्राञ्चः कचित्समवायिकारणनाशाहूव्यनाशः यथा
त्र्यणुकादिनाशः । कचिदसमवायिकारण नाशाद्रव्यनाशः यथा व्यणुकादि-
नाशः इत्यङ्गीचक्रुः । नव्यास्तु लाघवात्सर्वत्रासमवायिकारणनाशाद्रव्य-
नाशमङ्गीचक्रुः ( सि० च० १ पृ० ९) । इत्थं तेषां नाशः ।
पृथिव्युदकज्वलनपवनानामपि उदके सति पृथिव्याः ज्वलने सत्युद-
कस्य पवने सति ज्वलनस्य पश्चात्पवनस्य च विनाश: इति ( प० मा०
कालनि० पृ० ९३ ) ( प्रशस्त० पृ० ६ ) ( त० व० परि० ५
लो० ५ - ६ पृ० १२५) । ततः प्रविभक्ताः परमाणवो दोधूयमाना
अवतिष्ठन्ते । अत्रोच्यते दोधूयमानास्तिष्ठन्ति प्रलये परमाणवः इति
( भाष्य - कन्दली० ) ( प० मा० कालनि० पृ० ९३ ) । अदृष्ट-
संस्कारविशिष्टा आत्मान आकाशादयश्चावतिष्ठन्ते तावन्तमेव कालम्
( शतवर्षम् )। अयमेव खण्डप्रलयः इति अवान्तस्प्रलयः इति चोच्यते
(प० मा० कालनि० पृ० ९३) (त० व० पृ० १२५ ) ( त० ● दी० ) ।
महाप्रलयानन्तरं न सृष्टि: । सर्वमुक्तौ सर्वोत्पत्तिनिमित्तस्यादृष्टस्यापायात्