This page has not been fully proofread.

५७२
 
न्यायकोशः ।
 
( वात्स्या० १।१९।२४ ) । प्रयोजनत्वं च प्रवृत्तिहेत्विच्छाविषयत्वम् ।
विषयत्वं च साध्यताख्यविषयता विशेषः ( गौ० वृ० १११।२४ ) ।
अत्र वार्तिककारा आहुः । धर्मार्थकाममोक्षैः प्रयुज्यत इति केचित् ।
वयं तु पश्यामः । सुखदुःखाप्तिहानिभ्यां प्रयुज्यत इति । सुखदुःख-
साधनभावात्तु सर्वेर्थाश्चेतनं प्रयोजयन्तीति । तदिदं प्रयोजनं न्यायस्या-
श्रयः (न्या० वा० १ पृ० १४ ) । [ख] येन प्रयुक्तः प्रवर्तते तत्
प्रयोजनम् । यमर्थमभीप्सब्जिहासन्वा कर्मारभते तेनानेन सर्वे प्राणिनः
सर्वाणि कर्माणि सर्वाश्च विद्या व्याप्ताः । तदाश्रयश्च न्यायः प्रवर्तते
( वात्स्या० ११ १/१ ) ( त० मा० पृ० ४२ ) ( न्या० वा० १
पृ० १४ ) । [ग] यदुद्दिश्य प्रवर्तन्ते पुरुषास्त प्रयोजनम् ( ता० र०
लो० ५६) । [घ ] साध्यतयेच्छाविषयः ( दि० १) । यथा सुखं
दुःखहानिश्च प्रयोजनम् (त० दी० ) ( त० भा० पृ० ४२ ) ।
 
(
 
1
 
प्रयोजनं द्विविधम् । मुख्यम् गौणं च । तत्राद्यम् सुखं दुःखहानिश्च ।
द्वितीयम् यागभोजनादिकम् । प्रयोजनस्य मुख्यत्वं च निरुपाधीच्छा-
विषयत्वम् (चि० ४ ) ( गौ० वृ० १२।१।२४ ) । इतरेच्छानधीने-
च्छाविषयत्वं वा । समानाधिकरणेच्छाजन्येच्छाविषयत्वं वा ( अत्र
अजन्येति पदच्छेदः ) । प्रयोजनाजनकप्रयोजनवं वा ( न्या o सि०
दी० पृ० ७० ) । प्रयोजनस्य गौणत्वं च मुख्य प्रयोजनेच्छाधीनेच्छा-
विषयत्वम् ( गौ० वृ० १।१।२४ ) ।
 
प्रयोजनलक्षणा- निरूढलक्षणाभिन्ना लक्षणा । सा च षड्डिधा। उपादान-
लक्षणा लक्षणलक्षणा गौणसारोपा गौणसाध्यवसाना शुद्धसारोपा शुद्ध-
साध्यवसाना ( सर्व० सं० पृ० ३७४ पातञ्ज० ) ।
 
-
 
प्रयोज्यत्वम् – १ प्रयोजकत्वनिरूपकत्वम् । २ प्रयुक्तत्ववदस्यार्थोनुसंधेयः ।
प्रलयः - [क] अभावः (ध्वंस: ) ( गौ० वृ० ४ । २।१३) । यथा अव-
यवावयविप्रसङ्गश्चैवमाप्रलयात् ( गौ० ४/२/१३) इति । यथा वा विश्व-
स्थितिप्रलयसर्गमहाविभूतिवृत्तिप्रकाशनियमावृतिबन्धमोक्षाः । यस्या अपा-
ङ्गलवमात्रतः ( द्वाद० स्तो० अ० ७ श्लो० १) इति । प्रलयसद्भावे प्रमाणं