न्यायकोशः /621
This page has not been fully proofread.
न्यायकोशः ।
५६७
०
श्चरमं स्वतः ॥ प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः। प्रमाणत्वं
स्वतः प्राहुः परतश्चाप्रमाणताम् ॥ ( सर्व० पृ० २७९ जैमि० ) इति ।
एवम् नैयायिकमते अप्रमात्वमपि परत एव अनुमानादिना गृह्यते
उत्पद्यते च ( चि० १ प्रामा० ) ( त० दी० पृ० ३७) (सि०
च० ) इति । अत्रानुमानादिनैवाप्रमात्वं गृह्यते ( अनुमीयते) । तत्र
हेतुः पुरोवर्तिनि प्रकाराभावस्य व्यवसायेनाविषयीकरणात् । तथा च
प्रत्यासत्तेरभावादप्रमात्वस्यानुव्यवसायेन ग्रहणं न भवति इति भावः ।
अत्रानुमानप्रयोगस्त्वित्थम् । इदं ज्ञानमप्रमा विसंवादि प्रवृत्तिजनकत्वात्
यन्नैवं तन्नैवं यथा प्रमा
नील● प्रामा० पृ० ३७) इति ।
एवं च अनुमानादिग्राह्यत्वादप्रमाया ज्ञप्तौ परतस्त्वम् इति बोध्यम् । तथा
पित्तमण्डूकवसाञ्जनचाकचक्य दूरत्वादिदोषजन्यत्वादुत्पत्ता-
वपि परतस्त्वमिति बोध्यम् ( सि० च० ) । अत्र पित्तदूरत्वादिदोषो-
ननुगतोप्यन्वयव्यतिरेकाभ्यां हेतुर्भवति इति विज्ञेयम् ( म०प्र० प्रामा ०
पृ० ७३) ।
अप्रमायाः
प्रमाद: – ( दोषः ) १ पूर्वे कर्तव्यतया निश्चितेप्यकर्तव्यताधीः ।
एवं वैपरीत्येपि ( गौ० वृ० ४ । १ । ३ ) । सा च पूर्वमकर्तव्यतया नि-
श्चितेपि कर्तव्यताधीः । यथा प्रमादास्कुर्वतां कर्म इत्यादौ । २ कर्तव्ये
अकर्तव्यत्वधिया ततो निवृत्तिः अकर्तव्ये कर्तव्यत्वधिया तत्र प्रवृत्तिर्वा
प्रमादः इति केचिदाहुः ( वाच० ) । ३ अनवधानता इति काव्यज्ञा
आहुः ( अमरः ) । ४ पञ्चसमितिगुप्तिष्वनुत्साह: ( सर्व० सं० पृ०
७६ आई० ) । समाधिसाधनानामभावनं प्रमादः ( सर्व० सं०
पृ० ३५५ पातञ्ज० ) ।
प्रमितत्वम् – १ प्रमाविषयत्वम् । यथा घटे स घटः अस्ति इति ज्ञानवि-
षयत्वम् । यथा वा स्थावरजङ्गमात्मकस्य सर्वस्य जगतः प्रमितत्वम् ।
कचित् स्वविशेष्यकप्रमाप्रकारत्वम् (ग० बाघ ० ) । २ परिमितत्वम् ।
यथा प्रमितास्तण्डुलाः इत्यादौ ।