न्यायकोशः /620
This page has not been fully proofread.
५६६
न्यायकोशः ।
करादिमति करादिमद्विशेष्यकत्वे सति पुरुषत्वप्रकारकज्ञानत्वात् संप्रति -
: न्नवत् द्वितीयानुव्यवसायेन गृहीतप्रामाण्यकपुरुषज्ञानवत् इति । यद्वा यन्न
पुरुषत्ववति पुरुषत्वज्ञानम् तन्न करादिमति पुरुषत्वज्ञानम् । यथा स्थाणौ
पुरुषत्वभ्रमः इति व्यतिरेकी ( न्या० म० पृ० ३५ ) ( त० प्र० ख० ४
पृ० १३२ ) ( म० प्र० ४ पृ० ७१) । अत्र च परतस्त्वं द्विविधम् ।
• ज्ञप्ती परतरत्वम् उत्पत्ती परतस्त्वम् । अत्र प्रामाण्यस्य परत उत्पत्तिकत्वं
च ज्ञानसाक्षाद्विभाजकोपाध्यवच्छिन्नकार्यताप्रतियोगिककारणतानिरूपित
कार्यतावत्त्वम् (मू० म० प्रामा० ) । आद्यं यथा प्रथमजलज्ञानानन्तरं
प्रवृत्तौ सत्यां जललाभे सति पूर्वोत्पन्नज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वात्
यत्प्रमा न भवति तत्समर्थप्रवृत्तिजनकं न भवति यथा अप्रमा (जलभ्रमः)
इति व्यतिरेकिणानुमानेनानभ्यासदशापन्नज्ञाने प्रमात्वं निश्चीयते इति ।
अनभ्यासदशा पन्नप्राथमिकजलादिज्ञाने जाते तत्र प्रामाण्यसंशये सत्यपि
पुरुषः प्रवर्तते इति विशेषोत्र द्रष्टव्यः (त० कौ० पृ० १८ ) ।
अत्रेदं
बोध्यम् । प्रथमं जलजलत्वयोर्निर्विकल्पकम् । ततः इदं जलम् इति
• विशिष्टज्ञानम् । तत इच्छा । ततः प्रवृत्तिः । तदनन्तरं जललाभः ( सि०
च० ) इति । अभ्यासदशापन्नज्ञानेषु द्वितीयतृतीया दिजलादिज्ञानेषु तु
• प्रवृत्तेः पूर्वमप्यन्वयव्यतिरेकिणापि पूर्वज्ञानदृष्टान्तेन तत्सजाती
प्रामाण्यमवधार्यते । तद्यथा द्वितीयादिजलज्ञानं प्रमा समर्थप्रवृत्तिजनक
• जातीयत्वादाद्यजलज्ञानवत् ( त० कौ० पृ० १८) ( नील० ) इति ।
द्वितीयं उत्पत्तौ परतस्त्वं तु प्रमाया गुणजन्यत्वरूपम् । तद्यथा प्रत्यक्ष-
• प्रमायां विशेषणवद्विशेष्यसंनिकर्षात्मक गुणजन्यत्वम् । अथवा भूयोवयवा-
वच्छेदेनेन्द्रियसंनिकर्षात्मक गुणजन्यत्वम् । एवमनुमितौ व्यापकवति व्याप्य-
वत्ताज्ञानरूपगुणजन्यत्वम् उपमितौ यथार्थसादृश्यज्ञानात्मक गुणजन्यत्वम्
शाब्दबोधे च यथार्थयोग्यताज्ञानरूपगुणजन्यत्वं यथार्थवक्तृवाक्या-
• ज्ञानरूपगुणजन्यत्वं वा उत्पत्तौ परतस्त्वम् इत्याद्यूहनीयम् (नील ०
पृ० ३७ ) ( म० प्र० ४ पृ० ७३ ) । अत्रायं संग्रहः । प्रमाणत्वा-
• प्रमाणत्वे स्वतः सांख्याः समाश्रिताः । नैयायिकास्ते परतः सौगता-
.