न्यायकोशः /601
This page has not been fully proofread.
न्यायकोशः ।
५४७
प्रत्युत – (अव्ययम् ) [ क ] वैपरीत्यमात्रम् । [ख] स्वस्वपक्षस्थापनाय
परपक्षनिराकरणाय वोक्तस्य तद्वैपरीत्यभावः । यथा न दोषः पुनरुक्तोपि
प्रत्युतेयमलंक्रिया ( काव्याद० ) इत्यादौ ( वाच० ) ।
प्रथमा – १ (सुप् विभक्तिः ) [ क ] या विभक्तिस्तादात्म्यमिन्नस्वार्थध-
र्मिकप्रकृत्यर्थबोधं प्रतिस्वरूपयोग्या सा प्रथमा ( श० प्र० श्लो०
६३ टी० पृ० ७४ ) । यथा नीलो घट इत्यादौ घटपदोत्तरप्रथमा ।
विशेष्यवाचकपदोत्तरप्रथमा च स्वार्थैकत्वादिप्रकारकमेव प्रकृत्यर्थबोधं
प्रति समर्था इति तत्र नाव्याप्तिः । द्वितीयादयः स्वार्थे कर्मत्वादौ
प्रकृत्यर्थस्यान्वयबोधं प्रति समर्थाः इति न तत्रातिप्रसङ्गः । प्रथमा तु
विशेषणपदोत्तरस्था तादृशि तादात्म्ये तथान्वयं बोधयन्त्यपि न तादात्म्य-
भिन्ने तथा इति नाव्याप्तिः ( श० प्र० श्लो० ६३ टी० पृ० ७४ ) ।
[ख] धात्वर्थावच्छिन्नतिर्थस्यान्वयबोधं प्रति यदन्तनामोपस्थाप्यत्वं
तन्त्रम् तादृशी सुप् प्रथमा । स्वर्गकामो यजेतेत्यादौ तिङर्थस्येष्टसाधनत्वादेर्न
प्रकृत्यर्थावच्छिन्नस्य यागादावन्वयः । किं तु केवलस्य । अतः तस्य प्र-
थमान्तनामानुपस्थाप्यत्वेपि न क्षतिः । चैत्रमैत्रौ स्त इत्यादौ च द्वन्द्वेनैव
प्रथमान्तनाम्ना चैत्रस्योपस्थापनान्न व्यभिचार: ( श० प्र० श्लो० ६४
टी० पृ० ७४) । प्रथमा त्रिविधा सु औ जस् इति । स्वादित्रिकान्यतमत्वं
प्रथमात्वम् । एवम् अमादित्रिकान्यतमत्वादिना द्वितीयास्वादिकं निर्वाच्यम्
इत्यप्याहुः ( श० प्र० श्लो० ६५ टी० पृ० ७६) । अत्र प्रथमाया
द्विवचनम् औ द्वितीयायाः पुनरौद् इति भेदो वैयाकरणैः कल्पितः ।
प्रयोगे त्वर्थानुसारेण ज्ञेयः । २ आद्या । ३ प्रधानम् ।
प्रथमाब्दिकम् – प्रथमाब्दे पूर्णे द्वितीयाब्दाद्यतिथौ क्रियमाणं श्राद्धम्
( पु० चि० पृ० २४ ) ।
प्रथा – कपालेष्ववस्थितस्य पुरोडाशस्य हस्तसंघट्टनेन सर्वेषु कपालेषु प्रस-
रणम् (जै० न्या० अ० १० पा० १ अधि० ११ ) ।
प्रदेशानुबन्धः – कर्मभावपरिणतपुद्गलस्कन्धानामनन्तान्तप्रदेशानामात्मप्र-
देशानुप्रवेशः प्रदेशबन्धः ( सर्व० सं० पृ० ७८ आई०)।
-
CA