2023-10-29 11:19:48 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५४६
 
न्यायकोशः ।
 
संधानं गम्यते । तस्मादनित्यः शब्दः इत्यनेन अनित्य एव शब्दः इति

प्रतिपिपादयिषितार्थपरिसमाप्तिर्गम्यते
 
। तस्मात् पञ्चावयवेन वाक्येन

परेषां स्वनिश्चितार्थप्रतिपादनं क्रियते इति चैतत्परामर्शनमनुमानं

सिद्धम् ( प्रशस्त ० २ पृ० ३१ ) इति । अधिकं च निगमनशब्दार्थे

दृश्यम् । २ धर्मशास्त्रज्ञास्तु प्रतिनिधित्वेन विधीयमानः पदार्थः प्रत्या-

म्नायः । यथा दानार्थे साक्षागोरलामे गोप्रत्याम्नायः सुवर्णम् इत्याहुः ।
 
-
 

 
<
प्रत्यासत्तिः - >
१ संबन्धः । यथा मानसस्थले तु ज्ञानप्रकारीभूतं सामान्यं

प्रत्यासत्तिः सामान्यं येन संबन्धेन ज्ञायते तेन संबन्धेनाधिकरणानां

प्रत्यासत्ति: सामान्यविषयकं ज्ञानं प्रत्यासत्तिः (मु० १ पृ० १२९ - १३०)

इत्यादौ प्रत्यासत्तिः संबन्धः । यथा वा व्याकरणशास्त्रे हस्तादाने चेर-

स्तेये ( पा० सू० ३।३।४० ) इति सूत्रव्याख्याने हस्तादान इत्यनेन

प्रत्यासत्तिरादेयस्य लक्ष्यते ( सि० कौ० पृ० ३४२) इत्यत्र प्रत्यासत्तिः

संबन्धः । २ नैकट्यम् इति व्यवहारशास्त्रज्ञा आहुः ।
 
प्रत्यासन्नत्वम् -

 
<प्रत्यासन्नत्वम्>
१ संबद्धत्वम् । यथा समवायिकारणे प्रत्यासन्नं कारणम्

असमवायिकारणम् ( त० कौ० ) इत्यादौ । २ तद्विषयकप्रतीत्य-

व्यवहितप्राक्कालिक प्रतिपत्तिविषयत्वम् । ३ समीपवृत्तित्वम् इति काव्यज्ञा

वदन्ति । ४ धर्मशास्त्रे प्रत्यासन्नत्वं तु तदभावे यः प्रत्यासन्नः सपिण्ड:
 

इत्यादौ कुलगोत्रादिकृतः संनिकर्षः इति स्वीकृतम् ।
 
Stay
 
Dire
 

 
<
प्रत्याहारः- >
१ [क] बहिरिन्द्रियाणां स्वस्वविषयवै मुख्येनावस्थानम्

(योगाङ्गविशेषः ) (गौ० वृ० ४/२/४४ ) । [ख ] चक्षुरादीना-

मिन्द्रियाणां प्रतिनियतरञ्जनीयकोपनीयमोहनीयप्रवणत्व प्रहाणेनाविकृत-
EXTER
 

स्वरूपप्रवणचित्तानुकारः
 
प्रत्याहारः ( सर्व० सं० पृ० ३८१

पात० ) । २ प्राणायामद्विषट्रेन प्रत्याहार उदाहृतः इत्यपि वदन्ति

( काशीख० ४१) ।३ वैयाकरणास्तु आदिरन्त्येन सहेता (पा० सू०

१।१।७१ ) इत्यनेन कृता संज्ञा । यथा अण् इति अइउवर्णानां संज्ञा
 

इत्याहुः । ४ उपादानम् इति काव्यज्ञा आहुः ।