2023-10-29 05:45:52 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
एवं प्रतिबन्धकाभावकूट एव कारणम् । तेन मणिसद्भावे यत्किंचि

न्मण्याद्यभावेपि न कार्यम् ( चि० २) इति । अत्र मीमांसकमतेन

कार्यसहभावेन प्रतिबन्धकत्वं तु कार्यसहभावेन प्रतिबन्धकाभावरूप-

कारणदिशा व्यवस्थापनीयम् । [ ख ] कार्यानुकूलंकिंचिद्धर्मविघटकत्वम् ।

यथा केषांचिन्मते दाहानुकूलशक्तिविघटकत्वं मण्यादे: ( न्या० दी०

पृ० १४) । निश्चयस्य प्रतिबन्धकत्वं पञ्चविधम् । तथाहि । तद्वत्ताबुद्धिं

प्रति १ तदभाववत्तानिश्चयत्वेन २ तदभावव्याप्यवत्तानिश्चयत्वेन ३ तद -

भावावच्छेदकतया गृहीतधर्मवत्ता निश्चयत्वेन ४ तदसमानाधिकरणधर्मव-

तानिश्चयत्वेन ५ तद्व्यापकतावच्छेदकतया गृहीतधर्मावच्छिन्नाभाववत्तानि -

श्चयत्वेन च प्रतिबन्धकत्वम् इति । एवम् तद्वद्भेदवत्तानिश्चयत्वादिनापि प्र-

तिबन्धकत्वमवसेयम् । तत्राद्यं यथा हृदो वह्निमान् इति बुद्धिं प्रति हृदो न

वह्निमान् इति निश्चयस्य प्रतिबन्धकत्वम् । द्वितीयम् हृदो वड्यभावव्याप्यवान्

इति निश्चयस्य । तृतीयम् जलवान्वयभाववान् इति निश्चयविशिष्टस्य जल-

वान्ह्रदः इति निश्चयस्य । चतुर्थम् वह्नयसमानाधिकरणजलवान् हृदः इति

निश्चयस्य । पञ्चमम् हृदो घूमबान् इति बुद्धिं प्रति धूमव्यापकतावच्छेदकतया

गृहीतं यद्वह्नित्वं तादृशवह्नित्वावच्छिन्नाभाववान्हदः इति निश्चयस्य इति ।

कार्यमा प्रतिकामिनीजिज्ञासायाः स्वातन्त्र्येण मणिमन्त्रादिन्यायेन

प्रतिबन्धकत्वम् । कचित् कार्यविशेषं प्रति स्वातव्येण कस्यचित्प्रति-

बन्धकत्वम् । यथा दाहं प्रति मणेः प्रतिबन्धकत्वम् इति । प्रत्यक्षं प्रति

आनुमानिकनिश्चयो न प्रतिबन्धकः । किंतु शाब्दबोधं प्रत्यानुमानिक-

निश्चयः प्रतिबन्धकः इति सामान्यतो निर्णयः ( दीधि० ) । अत्रायमर्थः

समानविषये प्रत्यक्षानुमितिसामथ्र्योरेककालावच्छेदेन सत्त्वे तयोर्मध्ये

प्रत्यक्षसामग्री प्रबला इत्येतदनुभवसिद्धम् । तथा च तादृशप्रत्यक्षसामग्री

तत्रत्यानुमितिं प्रतिबध्नाति । भिन्नविषये तु अनुमितिसामग्र्येव प्रबला ।

एवं च प्रबलो दुर्बलं प्रतिबध्नाति इत्यनुभवादत्रत्यविषये प्रतिबध्यप्रति-

शब्दव्याख्याने संपादयिष्यते इति तत्तत्रावलोकनीयम ।

बन्धकभावप्रयोजकः प्रबलदुबेलभाव एव इति । अधिकं तु सामग्री-