न्यायकोशः /587
This page has not been fully proofread.
न्यायकोशः ।
एवं प्रतिबन्धकाभावकूट एव कारणम् । तेन मणिसद्भावे यत्किंचि
न्मण्याद्यभावेपि न कार्यम् ( चि० २) इति । अत्र मीमांसकमतेन
कार्यसहभावेन प्रतिबन्धकत्वं तु कार्यसहभावेन प्रतिबन्धकाभावरूप-
कारणदिशा व्यवस्थापनीयम् । [ ख ] कार्यानुकूलंकिंचिद्धर्मविघटकत्वम् ।
यथा केषांचिन्मते दाहानुकूलशक्तिविघटकत्वं मण्यादे: ( न्या० दी०
पृ० १४) । निश्चयस्य प्रतिबन्धकत्वं पञ्चविधम् । तथाहि । तद्वत्ताबुद्धिं
प्रति १ तदभाववत्तानिश्चयत्वेन २ तदभावव्याप्यवत्तानिश्चयत्वेन ३ तद -
भावावच्छेदकतया गृहीतधर्मवत्ता निश्चयत्वेन ४ तदसमानाधिकरणधर्मव-
तानिश्चयत्वेन ५ तद्व्यापकतावच्छेदकतया गृहीतधर्मावच्छिन्नाभाववत्तानि -
श्चयत्वेन च प्रतिबन्धकत्वम् इति । एवम् तद्वद्भेदवत्तानिश्चयत्वादिनापि प्र-
तिबन्धकत्वमवसेयम् । तत्राद्यं यथा हृदो वह्निमान् इति बुद्धिं प्रति हृदो न
वह्निमान् इति निश्चयस्य प्रतिबन्धकत्वम् । द्वितीयम् हृदो वड्यभावव्याप्यवान्
इति निश्चयस्य । तृतीयम् जलवान्वयभाववान् इति निश्चयविशिष्टस्य जल-
वान्ह्रदः इति निश्चयस्य । चतुर्थम् वह्नयसमानाधिकरणजलवान् हृदः इति
निश्चयस्य । पञ्चमम् हृदो घूमबान् इति बुद्धिं प्रति धूमव्यापकतावच्छेदकतया
गृहीतं यद्वह्नित्वं तादृशवह्नित्वावच्छिन्नाभाववान्हदः इति निश्चयस्य इति ।
कार्यमा प्रतिकामिनीजिज्ञासायाः स्वातन्त्र्येण मणिमन्त्रादिन्यायेन
प्रतिबन्धकत्वम् । कचित् कार्यविशेषं प्रति स्वातव्येण कस्यचित्प्रति-
• बन्धकत्वम् । यथा दाहं प्रति मणेः प्रतिबन्धकत्वम् इति । प्रत्यक्षं प्रति
आनुमानिकनिश्चयो न प्रतिबन्धकः । किंतु शाब्दबोधं प्रत्यानुमानिक-
• निश्चयः प्रतिबन्धकः इति सामान्यतो निर्णयः ( दीधि० ) । अत्रायमर्थः
समानविषये प्रत्यक्षानुमितिसामथ्र्योरेककालावच्छेदेन सत्त्वे तयोर्मध्ये
प्रत्यक्षसामग्री प्रबला इत्येतदनुभवसिद्धम् । तथा च तादृशप्रत्यक्षसामग्री
तत्रत्यानुमितिं प्रतिबध्नाति । भिन्नविषये तु अनुमितिसामग्र्येव प्रबला ।
एवं च प्रबलो दुर्बलं प्रतिबध्नाति इत्यनुभवादत्रत्यविषये प्रतिबध्यप्रति-
• शब्दव्याख्याने संपादयिष्यते इति तत्तत्रावलोकनीयम ।
बन्धकभावप्रयोजकः प्रबलदुबेलभाव एव इति । अधिकं तु सामग्री-