This page has not been fully proofread.

५३२
 
न्यायकोशः ।
 
द्धस्य भोजनस्य एकादशीश्राद्धादौ प्राप्तिः संभाव्यते इति । २ प्रतिजन्म
इति काव्यज्ञा आहुः ।
 
प्रतिवन्दिः - [क] प्रकृतैककल्पे प्रवृत्तं पुरुषमुद्दिश्याप्रकृतकल्पान्तरा-
पादनम् । यथा अनुमित्यव्यवहित पूर्ववर्तिसिद्धिभिन्नसिद्ध्यभावमात्ररूप-
पक्षता चानुमितौ कारणं चेत् तदा स्वसमानाधिकरणानुमित्यव्यवहित -
पूर्वक्षणवर्तित्वविशिष्टज्ञानं कारणं स्यात् इति प्रतिबन्दिः ( दीधि ०
पक्षता० पृ० १२७–१२८)। [ख] समानं विरोध्युत्तरम् (राम०) ।
प्रतिबन्धः–१ प्रतिरोधः। यथा मणिहप्रतिबन्धं करोति इत्यादौ ।
२ व्याप्तिः ( सांख्य० मा० १।१०० ) । यथा प्रतिबन्धदृशः प्रति-
बद्धज्ञानमनुमानम् ( सांख्यसू० अ० १ सू० १०० ) इत्यादौ ।
 
प्रतिबन्धकत्वम् – [क] कारणीभूताभावप्रतियोगित्वम् ( कु० १ )
(दि०) (सि० च० १ तेजोनि० पृ० ८) । अत्र कारणपदं
क्वचित्प्रयोजकपरमपि (मू० म० १ ) । कारणीभूतेत्या देरर्थश्च स्वावच्छि-
• धर्मस्तद्वत्त्वम् ( कु० १ टी० ) । तद्धर्मावच्छिन्न कार्यतानिरूपिताभाव-
नप्रतियोगिताकत्वसंबन्धेना भावत्वावच्छिन्नकारणताया अवच्छेदको यो
त्वावच्छिन्नकारणतानिरूपितस्वावच्छिन्न प्रतियोगिताकत्वसंबन्धावच्छिन्ना-
वच्छेदकताश्रयधर्मवत्वम् इति निष्कर्षः । यथा हृदो वह्निमान् इति
बुद्धौ हृदो न वहिमान् इति निश्चयस्य प्रतिबन्धकत्वम् । तथाहि ।
हृदो वह्निमान् इत्यनुमितौ कारणीभूतो यः अभावः हृदो वह्नयभाववान्
इति निश्चयाभावः तस्य प्रतियोगी हृदो वह्यभाववान् इति निश्चयः
निश्चयदायां हृदो वह्निमान् इत्यनुमित्यनुदात्ताश्च
इति तस्य तथात्वं संपद्यते । अयं भाव: । हृदो वह्नयभाववान् इति
• मणेः प्रतिबन्धकत्वम् । तथाहि । मणिसमवधानदशायां वहेर्दाहानुत्पत्त्या
तादृशानुमितिं प्रति कारणत्वमङ्गीकर्तव्यम् इति । यथा वा दाहं प्रति
दाहं प्रति मण्यभावस्य कारणत्वेन तत्प्रतियोगित्वं संपद्यते । तत्र कार
•णत्वं मण्यभावत्वेन न तु प्रतिबन्धकाभावत्वेन । अतो नान्योन्याश्रयः ।