2023-10-29 05:44:41 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
५३१
 
प्रतिपत् --
<प्रतिपत्>
चन्द्रस्य प्रथमकलया दर्शनयोग्यत्वसंपत्त्यर्थं यावान्कालोपेक्ष्यते

स कालः । तथा च सूर्येण सहातिसंनिकृष्टस्य चन्द्रस्य यावता कालेन

सूर्याद्वादशभिरंशैर्विप्रकर्षो भवति तावान्कालः शुक्लपक्षे प्रतिपच्छब्द-

वाच्यः । एवमादित्यादतिविप्रकृष्टस्य चन्द्रस्य यावता कालेन द्वादश

भिरंशै: संनिकर्षो भवति तावान्कालः कृष्णपक्षे प्रतिपत्तिथिः

( पु० चि० पृ० ३२ ) ।
 

 
<
प्रतिपत्तिः>
१ बुद्धिवदस्यार्थोनुसंधेयः । २ [क] मीमांसकाश्च शेषस्य

( प्रधानादिकर्मण्युपयुक्तादवशिष्टस्य ) विहितस्थलविशेषे विनियोगः ।

यथा चात्वाले कृष्णविषाणां प्रास्यति ( तैत्ति ० संहि० ६ । १ । ३ ) इत्यादौ

इत्याहुः । [ ख ] धर्मज्ञास्तु फलशून्यकर्माङ्गविशेषः । यथा श्राद्धादौ

दत्तद्रव्यस्य कुशमयब्राह्मणपक्षे जलादौ निक्षेपः प्रतिपत्तिः । यथा वा

पूजितप्रतिमादेश्च जलादौ निक्षेपः प्रतिपत्तिः इत्याहुः । [ग] उप-

युक्तस्या कीर्ण करतानिवर्तकं कर्म ( मी० न्या० पृ० ३४ ) । ३ प्रवृत्तिः ।

४ प्रागल्भ्यम् । ५ गौरवम् । ६ प्राप्तिः । ७ पदप्राप्तिः इति काव्यज्ञा

आहुः ( वाच० ) ।
 

 
<
प्रतिपादनम् - >
१ प्रतिपत्त्यनुकूलशब्दप्रयोगः । यथा श्रुत्यर्थं प्रतिपाद-

यतीत्यादौ । २ दानम् इति काव्यज्ञा आहुः ।

प्रतिप्रसवः - १[क] प्रतिषिद्धैकदेशस्य पुनर्विधानम् । यथा अग्नीषोमीयपश्वा-

लम्भनविधानम् । अत्र रागतः प्राप्तस्य मा हिंस्यात्सर्वा भूतानि इति श्रुतिवा-

क्येन निषिद्धस्य हिंसासामान्यस्यैकदेश अग्नीषोमीयपश्वालम्भनम् अग्नि-

षोमीयपशुमालभेत इति श्रुतिवाक्येन विधीयते इति । यथा वा न भक्ष-

येदेकचरानज्ञातांश्च मृगद्विजान् । भक्ष्येष्वपि समुद्दिष्टान् सर्वान् पञ्चनखां-

स्तथा ॥ ( मनु० अ० ५ श्लो० १७) इति निषिद्धस्य सर्वपञ्चनख

मांसभक्षणस्यैकदेशस्य पञ्चपञ्चनखमांसभक्षणस्य विधानम् । पञ्चपञ्च-

नखाश्च मनुस्मृतौ ( अ० ५ श्लो० १८) आपस्तम्बधर्मसूत्रे

(१।५।१७।३७ ) चोक्ता: परिसंख्याशब्दे प्रदर्शिताः । [ख ]

निषिद्धस्य पुनः प्राप्तिसंभावना । यथा स्मार्तानां मते एकादश्यां निषि
 
-