न्यायकोशः /559
This page has been fully proofread once and needs a second look.
-
१ स्यात्पुर्यष्टकमन्तःकरणं धीकर्म करणानि ( सर्व० सं०
पृ० १८४ शै० ) । २ शब्द: स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चकम् ।
बुद्धिर्मनस्त्वहंकारः पुर्यष्टकमुदाहृतम् ॥ ( सर्व० पृ० १८५ शै० ) ।
<पुष्करम्
अमा सोमे तथा भौमे गुरुवारे यदा भवेत् । तत्तीर्थं पुष्करं
नाम सूर्यपर्वशताधिकम् ॥ ( पु० चि० पृ० ३१७ )।
पुस्तम्-
<पुस्तम्>
लिप्यादिशिल्प कर्मयुतं वस्तु । यथा पुराणपुस्तकम् इत्यादि ।
किंच मृदा वा दारुणा वापि वस्त्रेणाप्यथ चर्मणा । लोहरतैः कृतं वापि
पुस्तमित्यभिधीयते ॥
<पुगः
भिन्नजातीनां भिन्नवृत्तीनामेकस्थाननिवासिनां समूहः । यथा ग्राम-
नगरादयः ( मिताक्षरा अ० २ श्लो० ३० ) ।
<पूजा
[क] आराधना । [ख] उपासना ।
<पूरकः
( प्राणायामः ) बाह्यस्य वायोरन्तर्धारणम् ( सर्व० सं० पृ०
३७७ पात ० ) ।
<पूर्णा
पित्र्येस्तमयवेळायां स्पृष्टा पूर्णा निगद्यते (पुरु० चि० पृ० ४०)।
<पूर्णिमा
कलाक्षये व्यतिक्रान्ते दिवा पूर्णौ परस्परम् । चन्द्रादित्यौ परा
तु पूर्णत्वात्पूर्णिमा स्मृता ॥ ( पुरु० चि० पृ० ३१७ ) ।
<पूर्वकालीनत्वम्
[क] कालिकसंबन्धेन तप्रागभाववश्वम्। इदं च
ध्वंसस्य (जन्यमात्रस्य ) कालोपाधिस्वपक्ष एव संगच्छते इत्यवधेयम्
( ग० सार्व० पक्ष० पृ० ३८) । यथा अनुमित्यव्यवहितपूर्ववृत्ति-
•
सिद्धिभिन्न सिद्ध्यभावमात्रं पक्षता ( दीधि० २ पक्ष० ० २२७) इति
•
पक्षतायाः शरीरप्रविष्टे अनुमितिपूर्वकालीनध्वंसाप्रतियोगित्वरूपे अव्य
•
वृत्तित्वम् । यथा भुक्त्वा व्रजतीत्यत्र भोजने गमनप्रागभावावच्छिन्न-
वहितत्वरूपे शरीरे ध्वंसस्य पूर्वकालीनत्वम् । [ख ] प्रागभावकाल-
कालवृत्तित्वम् । [ग] तदुत्पत्तिकालीनध्वंसप्रतियोगिकालवृत्तित्व
(तर्का० ४ पृ० ११) । यथा ज्येष्ठस्य पुरुषस्य कनिष्ठं पुरुषमपेक्ष्य
पूर्वकालीनत्वम् । इदं च प्रागभावानभ्युपगन्तृमतेपि युज्यते इति बोध्यम्
(ग० सार्व० पक्ष० पृ० ३८ ) ।
६४ न्या० को०