This page has not been fully proofread.

५०४
 
न्यायकोशः ।
 
व्यन्ति परां गतिम् ॥ इति (मत्स्यपु० ) ( पद्मपु० उ० अ० ४३ )
(वाच ० ) । पुराणानां संख्या तु (४०००००) चत्वारि लक्षाणि ।
तदुक्तं श्रीभागवते तत्र ( १ ) ब्राह्मम् १०००० । ( २ ) पाद्मम्
५५०००। ( ३ ) वैष्णवम् २३००० । ( ४ ) शैवम् २४०००/
(५) श्रीमद्भागवतम् १८०००। (६) नारदम् २५०००। (७)
मार्कण्डेयम् ९०००। ( ८ ) आग्नेयम् १५४००। (९) भविष्यम्
१४५००। (१०) ब्रह्मवैवर्तम् १८००० । ( ११ ) लैङ्गम् ११००० ।
(१२) वाराहम् २४०००। ( १३) स्कन्दम् ८११०० / (१४)
• वामनम् १००००। ( १५ ) कौर्मम् १७०००। ( १६) मात्स्यम्
१४०००। (१७) गारुडम् १९०००। (१८) ब्रह्माण्डम् १२०००/
 
इति ( भागवते स्क० १२ अ० १३ श्लो० ४-८)।
पुरुषः अनुभयात्मकः पुरुषः । तदुक्तम् न प्रकृतिर्न विकृतिः पुरुषः
 
( सर्व० सं० पृ० ३२० सांख्य० ) ।
 
पुरुषार्थ:-[क] बलवद्वेषाविषय: ( त० प्र० १ ) । [ ख ] यज्ज्ञातं
सरस्ववृत्तितयेष्यते सः (मु० गु० इच्छानि० पृ० २२१ ) । यथा
• तल्लक्षणं चेतरेच्छानधीनेच्छ। विषयत्वम् (मु० गु० इच्छानि० पृ०२२१)।
सुख दुःखाभावश्च पुरुषार्थ: । अयमेव स्वतः पुरुषार्थः इत्युच्यते ।
• पुरुषार्थशब्दस्य पुरुषस्य अर्थः प्रयोजनम् इति व्युत्पत्तिर्दृष्टव्या ।
काममोक्षाश्च पुरुषार्थी उदाहृताः इति ( अग्निपु० ) । [ग] पुरुष-
धर्मार्थ-
[घ ] यस्मिन्स्वर्गादिसुखविशेषे पश्वादिसुखसाधने चलब्धे प्रीतिः
• कृतार्थोस्मीति वृत्तिस्तत्साधनं पुरुषार्थः (जै० सू० वृ० अ० ४
पा० १ सू० २) । चार्वाकमते अङ्गनालिङ्गनादिजन्यं सुखमेव पुरु-
पार्थः ( सर्व० सं० पृ० ३ चार्वा० ) । सांख्यमते सत्त्वपुरुषान्य-
ताख्यातिः पुरुषार्थः ( सर्व० सं० पृ० ३९२ शां० ) । पुरुषैर
इति व्युत्पत्त्या निःशेषदुःखोपशमलक्षितं परमानन्दैकरस्यं च पुरुषार्थ-
शब्दस्यार्थः ( सर्व० सं० पृ० ४०१ शां० ) । मध्यमते च भक्ति-
रपि पुरुषार्थः ।