This page has not been fully proofread.

न्यायकोशः ।
 
५०३
 
तायां तु नपुंसकमिति स्मृतम् इति ( शा० ति० ) । पुमान् पुंसोधिके
शुक्रे स्त्री भवत्यधिके स्त्रियाः । समेपुमान् पुंस्त्रियौ वा क्षीणेल्पे च
विपर्ययः ॥ इति च ( मनु० अ० ३ श्लो० ४९ ) । २ मनुष्यत्व-
जातिविशिष्टमात्रम् ( अमर० २१६ । १ ) । सत्वप्रधान त्रिगुणकार्यः शब्द-
संस्कारविशेषयुक्तः शब्दः पुमान् इति शाब्दिका आहुः ( वाच० ) ।
पुराकल्प: - १ ( अर्थवाद: ) [ क ] ऐतिहासमाचरितो विधिः (वात्स्या०
२।१।६३ ) । [ख] ऐतिहासमाचरिततया कीर्तनम् । यथा तस्माद्वा
एतेन पुरा ब्राह्मणा बहिः पावमानं सामस्तोममस्तौषन् यज्ञं प्रतनवामहे
इत्येवमादिः (गौ० वृ० २१११६३ ) ( वात्स्या० २।१।६३ ) ।
२ प्राचीनः कल्पः । यथा श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः।
येनायजन्त यज्वानः पुण्यश्लोकपरायणाः ॥ इत्यादौ ( भार० शान्ति ०
दानधर्मे०) । ३ बहुकर्तृकः विधिः पुराकल्पः (जै० सू० वृ० अ० ६
पा० ७ सू० २६) ।
 
पुराणम्-१ पुरातनम् । यथा पुराणपत्रापगमादनन्तरं लतेव संनद्ध-
मनोज्ञपलवा ( रघु० ३।७) इत्यादौ । २ पञ्चलक्षणात्मकः शास्त्र-
विशेषः । यथा वेदव्यासकृतान्यष्टादश पुराणानि । तथोक्तम् सर्गश्च प्रति-
सर्गश्च वंशो मन्वन्तराणि च । वंश्यानुचरितं चैव पुराणं पञ्चलक्षणम् ॥
इति । अष्टादशपुराणानां कर्ता सत्यवतीसुतः । पुराणानि च सात्त्विक
राजसतामसभेदेन विभक्तानि पद्मपुराणे । यथा मात्स्यं कौर्म तथा लैङ्गं
शैवं स्कन्दं तथैव च । आग्नेयं च षडेतानि तामसानि निबोधत ॥
इति । वैष्णवं नारदीयं च तथा भागवतं शुभम् । गारुडं च तथा
पाद्मं वाराहं शुभदर्शने । सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै
इति । ब्रह्माण्डं ब्रह्मवैवर्त मार्कण्डेयं तथैव च । भविष्यं वामनं ब्राह्मं
राजसानि निबोधत ॥ इति पद्मपु० उ० ख० अ० ४३ ) । तत्र
प्रतिपाद्यानामेव सात्त्विकादिकारणत्वमाह । अग्नेः शिवस्य माहात्म्यं
तामसेषु च कथ्यते । ब्रह्मणस्तरपुराणस्य माहात्म्यं राजसेषु च ॥
सात्त्विकेष्वधिकं तत्तद्विष्णोर्माहात्म्यमुत्तमम् । तथैव योगसंसिद्धा गमि-
A
 
4
 
2