This page has not been fully proofread.

४८६
 
न्यायकोशः ।
 
स्तथा । भक्ष्यान्पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥ इति मनुवचने ( अ० ५
श्लो० १८) पञ्चनखेष्विति निर्धारणसप्तम्या शल्लकादिपञ्चभिन्नपञ्चनखानां
भक्षणस्य प्रत्यवायहेतुत्वम् इत्यर्थे क्लृप्तत्वात् इति ( श० प्र० श्लो० १००
टी० पृ० १५९) । एवम् याजनाध्यापनप्रतिप्र हैर्ब्राह्मणो धनमर्ज येदित्यादा -
वपि लिङः परिसंख्यैवार्थः । तेनात्रापि याजनादिभिन्नैर्ब्राह्मणस्य धनार्जनं
प्रत्यवायहेतुः इति बाक्यार्थः । न कृष्याद्यैरनापन्नो ब्राह्मणो धनमर्जयेत्
इत्या दिवचनैरुपायान्तरेण विप्राणां धनार्जनस्य प्रत्यवायहेतुत्वस्य स्फुट-
वात् इति बोध्यम् (श० प्र० श्लो० १०० टी० पृ० १५९) । अत्राहुः ।
_याजनाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमर्जयेत् इत्यत्र नियमविधिरेव । तथाहि
यत्र क्रियायां विकल्पेन कारकान्वयः स नियमः । यथा धनार्जने
 
याजनप्रतिग्रहाभ्यामेकस्यार्जनस्यासंभवादेकस्यां धनार्जनक्रियायां याजना
दीनां मिलितानामन्वयस्यासंभाविततया विकल्पेनैवान्वयः । शशकादिमांस:-
निर्मितस्यैकस्य पिण्डस्य संभवात् भक्षणक्रियायां मिलितानामन्वयसंभवः
इति परिसंख्येति भेदः इति ( त० प्र० ४ पृ० १०८) । शब्दशक्ति-
प्रकाशिकाकृतस्तु अत्र
 
याजनाद्यैर्ब्राह्मणो धनमर्जयेदेव इति
 
नियम-

 
विधिः । याजनादिना धनानर्जने ब्राह्मणस्य प्रत्यवायाश्रुतेः इत्याहुः
( श० प्र० श्लो० १०० टी० पृ० १६०) । [ग] उभयोर्युगपत्प्राप्ता-
शशकः शलुकी गोधा खङ्गी कमोथ पञ्चमः ॥ (लौ० मा० १० १२
इति । परिसंख्या द्विविधा श्रौती लाक्षणिकी च । तत्राद्या अत्र
ह्येवावयन्ति ( श्रुतिः ) इति । तदर्थश्च अत्र प्रकृते अवयन्ति अ
• जानन्ति गायन्तीति यावत् (लो० भा० टी० पृ० : ४२) ।
• कारेण पवमानातिरिक्तस्तोत्रव्यावृत्तिरभिधीयते इति अस्याः परिसंख्यायाः
श्रौतीत्वम् इति विज्ञेयम् ( लौ० मा० पृ० ४१) । द्वितीया पञ्च पञ्चनखा
भक्ष्याः इति ( लौ० भा० पृ० ४१ ) ( म० प्र० ४ पृ० ६२ ) /
इदं हि वाक्यं पञ्चानां पञ्चनखानां सेधागोधादीनां च न भक्षण-
विधायकम् । तस्य रागतः प्राप्तत्वात् । नापि तेषां भक्षणनियम-
परम् । तेषां च तदितरपञ्चनखानां च भक्षणस्य युगपदपि रागतः
 
अत्रैव-