2023-10-28 18:59:33 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४८५
 
<परिषत्>
जातिविशिष्टपुरुषोपग्रहेण वर्तमाना सभा (न्या० वा० १।१।१४

पृ० ७९ ) । धर्मज्ञास्तु दशावरा वा परिषद्यं धर्म परिकल्पयेत् ।

इयवरा वापि वृत्तस्था तं धर्म न विचालयेत् ॥ ( मनु० १२/११० )

इत्यादी इत्याहुः ।
 

 
<परिसंख्या>
(विधिः ) [ क ] सर्वत्र प्राप्तस्य
क्वचिद्विधिः । तदुक्तं
कीर्यते इति ( न्या०
 
परिसंख्या – (विधिः ) [ क ] सर्वत्र प्राप्तस्य

भट्टपादैः । तत्र चान्यत्र च प्राप्तौ परिसंख्येति
कीर्यते इति ( न्या०
म० ४ पृ० २८) । तदर्थश्च यत्रोद्देश्ये यस्य विधानम् तदन्यस्मिन्नपि

तत्संबन्धस्य तस्मिन्वा तदन्यसंबन्धस्य प्रवृत्तितः प्रसक्तौ इति । यथा

पञ्चपञ्चनखा भक्ष्याः इति । अत्र सर्वेषां पञ्चनखानां भक्षणे प्राप्ते

पञ्चैव पञ्चनखा भक्ष्याः न त्वन्ये इति विधीयते (नियम्यते ) ( त० प्र० ४

पू० १०८ ) ( सि० च० पृ० ३३ ) । पञ्चपञ्चनखातिरिक्ताभक्षणं

विधीयते इति तात्पर्यम् । पञ्चनखास्तु शशक: शल्लकी गोधा खड्गी

कूर्मश्च पञ्चमः इति ( सि० च० पृ० ३३ ) ( त० प्र० ४ पृ० १०८) ।

काल एव भार्यागमनं विधीयते । ऋत्वतिरिक्तकाले भार्यागमनस्य निषेधात्

केचिदत्रैमाहुः । ऋतौ भार्यामुपेयादित्यत्रापि परिसंख्यैव । तत्र ऋतु-

इति । वस्तुतस्तु तत्र ऋतुकाले भार्यागमनं कर्तव्यमेव इति बोधा-

नियमविधिरेव इति । अत्रायं भावः । ऋतावुपेयात्स्वां भार्यामन्यथा

भ्रूणहा भवेत् इत्यादिनिन्दार्थवादबलात् ऋतौ स्खदारगमनाद्यभावस्य

दुरित हेतुत्वव्यवस्थित्यैव तद्विधेर्नियमपरत्वं कल्प्यते इति ( श० प्र० श्लो०

१०० टी० पृ० १५९ ) । [ख अन्ययोगव्यवच्छेदः । यथा पञ्च

पञ्चनखान् भुञ्जीतेत्यादौ लिङा परिसंख्या बोध्यते । अत्रत्यलिङा प्रत्यवा

यहेतुत्वं प्रत्याय्यते । प्राथमिकपञ्चपदेन लक्षणया शशादिपञ्चभिन्नोर्थो

बोध्यते । सा परिसंख्या च पञ्चैव पञ्चनखान् भुञ्जीत इत्याकारैव ।

तेन शशादिपञ्चभिन्नानां पञ्चनखानां भोजनं प्रत्यवायहेतुः इत्येव तत्र

वाक्यार्थ: । अत्र शशादिपञ्चविधान् पञ्चनखानेव भुञ्जीत इत्याकारा

परिसंख्या न भवति । पञ्चनखभिन्नस्यौदनादेर्भोजनस्य निषिद्धत्वे प्रमाणा-

"भावात् इति । अत्रार्य भावः । श्वाविधं शल्यकं गोधां खड्गकूर्मशशां-