2023-10-28 18:56:31 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४८१
 
परिमाणे
 
(
बाच ० ) । मनुयाज्ञवल्क्यादयस्तु प्रकारान्तरेण परिमाणगणनं चक्रिरे ।

तत्राङ्गुलादिपरिमाणमेव वैशेषिकमते गुणविशेषत्वेन चतुर्विधत्वेन च

प्रतिपादितम् न तु गुजादिपरिमाणम् इति तारानाथतर्कवाचस्पतिराह ।

परिमाणं द्विविधम् । महत्त्वम् अणुत्वं च ( त० व० ) । प्रकारान्तरेण

तच्चतुर्विधम् । अणु महत् दीर्घम् हस्वं च ( प्रशस्त ० ) ( तं० सं० )

( मु० गु० ) । तत्र अणुहस्वपरिमाणे परमाणुद्व्यणुकयोः । महद्दीर्घ-

त्र्यणुकचतुरणुकादौ ( प्र० प्र० ) । चतुर्विधमपि प्रत्येकं द्विवि-

धम् परमं मध्यमं चेति । तत्र परमाणुत्वपरमहस्वत्वे परमाणुमनसोस्तिष्ठतः ।

मध्यमाणुत्वमध्य महस्वत्वे ह्यणुके तिष्ठतः । परममहत्त्वपरमदीर्घवे गग-

नादौ तिष्ठतः । मध्यममहत्त्वमध्यमदीर्घत्वे घटादौ तिष्ठतः इति (सि० च १

पृ० १७) । पुनश्च चतुर्विधमपि परिमाणं द्विविधम् । नित्यम् अनियं

च । तत्र नित्यगतं नित्यम् । अनित्यगतमनित्यम् । तच्च अनित्यम्

त्रिविधम् । संख्याजन्यम् परिमाणजन्यम् प्रचयजन्यं च । तत्राद्यम्

आश्रयनाशान्नश्यति ( वै० ७/१/१८- १९ ) ( प्रशस्त ० ) । अनित्यं

परमाणुद्वित्वजन्यं द्यणुके द्व्यणुकबहुत्वजन्यं च त्र्यणुके । द्वितीयम्

कपालपरिमाणजन्यं घटपरिमाणम् । तृतीयम् तूलावयवसंयोगजन्यं

तूल पिण्डपरिमाणम् (वै० ७/११८-२५ ) ( मा० प० लो०

११०-११४ ) ( प्रशस्त ० ) ( सि० च० १ पृ० २१ ) ( त०

कौ० ) । अयं तूलावयवसंयोगश्च शिथिल इत्युच्यते ( भा० ५०

श्लो० ११३ ) । अत्रायं संग्रहः । परिमाणं चतुर्विधम् । अ

महत् दीर्घम् हस्वं च । तत्र महत् द्विविधम् । नित्यम् अनित्यं

च। नित्यम् आकाशकालदिगात्मसु परममहत्त्वम् । अनित्यम् त्र्यणुका-

दावेव । तथा अण्वपि द्विविधम् । नित्यम् अनित्यं च । परमाणुमनःसु

पारिमाण्डल्यं नित्यम् । अनित्यं द्यणुक एव । कुवलामलकबिल्वादिषु

सूत्पाद्य महत्वाणुस्वैकार्थसमवेते । समिदिक्षुवंशादिष्वञ्जसा दीर्घेष्वपि तत्प्र-

महत्स्वपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तोणुव्यवहारः । दीर्घत्वहस्वस्त्रे

कर्षभावमपेक्ष्य भाक्तो हस्वव्यवहारः । अनित्यं चतुर्विधमपि संख्या-

परिमाणप्रययोनि । तत्रेश्वरबुद्धिमपेक्ष्योत्पन्ना व्यणुकेषु बहुसंख्या
 

६१ न्या० को०