This page has not been fully proofread.

न्यायकोशः ।
 
६ पूजनम् । यथा परिचरति इति । ७ वर्जनम् । यथा परि त्रिगर्तात्
इति । ८ मर्यादा । यथा परिच्छिद्यते वासः इति । ९ आच्छादनम् ।
यथा परिदेवनम् इत्यादौ ( गण० टी० ) । १० व्याधिः । ११ शेषः ।
१२ उपरमः । १३ संतोष: । १४ संतोषभाषणम् इत्यादि (वाच० ) ।
अस्य परिइत्यव्ययस्यार्थविशेषेणोपसर्गत्वं कर्मप्रवचनीयत्वं च यथायथं
ज्ञेयम्। अस्यार्थविशेषद्योतकत्वमेव न तु वाचकत्त्रमित्यपि विज्ञेयम् ।
परिचय:- १ ज्ञातस्य पौनःपुन्येन ज्ञानम् ( वाच० ) । २ सर्वतश्चयनम्
 
इति काव्यज्ञा आहुः ( माघ ० २/७५ ) ।
 
-
 
परिचायकम् - १ तदघटकत्वे सत्यर्थविशेषज्ञापकम् । यथा शब्दगुणव
• रूपाकाशलक्षणे गुणः परिचायकः । यथा वा तत्तद्धर्मावच्छिन्ननिरूपित
विषयितान्यतमविषयिता निरूपकतावच्छेदकधर्मवत्त्वरूपे हेत्वाभासलक्षणे
तत्तद्धर्मावच्छिन्ननिरूपितत्वं विषयितानां परिचायकम् ( ग० हेत्वा०
 
सामान्यनि० पृ० ३१ ) । २ उपलक्षणम् इति केचिद्वदन्ति ।
परिच्छित्तिः - अनुभवः ( कु० टी० ४/५ ) ।
 
1
 
-
 
परिच्छेदः - १ ज्ञानम् ( चि० २) । यथा वाक्यार्थसामानाधिकरण्येन
• संज्ञानिमित्तपरिच्छेदः इत्यादौ । २ अवधारणम् । ३ अवधिः ।
४ सीमा । ५ परिमाणम् । ६ ग्रन्थस्य संधिविशेषः । अत्रोच्यते ।
 
परिवर्तश्च पटलं
 
इति
 
सर्गवर्गपरिच्छेदोद्धाताध्यायाङ्कसंग्रहाः । उच्छ्वासः
काण्डमस्त्रियाम् ॥ स्थानं प्रकरणं पर्वाहिकं च ग्रन्थसंधयः

•दयोपि यथायथं ग्रन्थसंधय ऊह्याः । तत्र काव्ये सर्गः । कोशे वर्गः ।
अलंकारे परिच्छेदोच्छ्वासौ । कथायामुद्धातः । संहितापुराणादावध्यायः ।
नाटकेङ्कः । तत्रे पटलम् । ब्राह्मणे काण्डम् । इतिहासे पर्व ।
 
भाष्ये
 
आह्निकम् इति ( वाच० ) ।
 
-
 
परिणाम: - १ जीर्णता (पाकः ) ( सि० च० ) ( नील० ) ।
भुक्तस्य परिणामहेतुरौदर्यम् तेज: ( त० सं० ) इत्यादौ । २ सांख्याः