This page has not been fully proofread.

४५९
 
न्यायकौशः ।
 
विनियोगफल कस्वीकारवान् इति बोधः । अत्र अव्यवहितोत्तरत्वं च स्वस
• मानविषयकपुरुषान्तरीयविनियोगव्यवहितभिन्नत्वम् । तेन शूद्रात् प्रति-
(ग्रहीत्रा विप्रेण दत्तं धनमादातरि शूद्रादादत्ते इति न प्रयोगः ( का०
 
व्या० पृ० १० ) ।
 
पञ्चपाण्डवपतिका द्रौपदी पञ्चमीशब्देनोच्यते इति पौराणिका आहुः ।
ज्योतिर्विदः । तादृशकलोपलक्षिततिथिश्च पञ्चमी इति मौहूर्तिका वदन्ति ।
सूर्यकिरणप्रतिबिम्बयोग्यत्वयोग्यत्वाभावयुक्ता चन्द्रस्य पञ्चमी कला इति
पञ्चलक्षणम् - १ अनुमान चिन्तामण्युक्तं व्याप्तिस्वरूपपञ्चकम् । तच्च (१)
साध्याभाववदवृत्तित्वम् (२) साध्यवद्भिन्नसाध्याभाववदवृत्तित्वम् (३)
• साध्यवत्प्रतियोगिताकान्योन्याभावासामानाधिकरण्यम् (४) सकलसा-
ध्याभाववन्निष्ठाभावप्रतियोगित्वम् (५) साध्यवदन्यावृत्तित्वम् इति ( चि० २
पृ० २) । पञ्चलक्षणप्रतिपादकग्रन्थस्य पञ्चलक्षणी इति नाम / तत्र
(पञ्चलक्षणम् इति पौराणिका आहुः । अत्र पञ्चलक्षणानि तु सर्गश्च
पञ्चानां लक्षणानां समाहार: ( ङीप् ) इति व्युत्पत्तिर्दृष्टव्या । २ पुरा
• प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंश्यानुचरितं चैव पुराणं पञ्च-
लक्षणम् ॥ इति ( अमर० क्षेपक० का० १ शब्दादि० ) ।
 
पट:- १ वेष्टनवस्त्रम् । यथा तन्तवः पटस्य समवायिकारणम् इत्यादौ
( त० सं० ) । २ चित्रलेखनपटः इति तन्त्रज्ञा आहुः ( देवीपु० )
 
( बृ० सं० अ० ७१ ) ( वाच ० ) ।
 
पण्डा--१ (अपूर्वम् ) फलसाधनत्वयोग्यः अदृष्टविशेषः । यथा मीमां-
सकमते अहरह: संध्यामुपासीत इत्यादौ नित्यकर्मणः संध्यावन्दनादेर-
भावे दुरदृष्टं जायते संध्यादेवन्दने तु तस्यानुत्पत्त्या फलानुपहितं दुरदृष्टं
• नश्यति इति तत्पण्डापूर्वम् । अत्र गुरवः । कार्यत्वेन अपूर्व एव विधेः
• विषयकं कार्यम् इत्यन्वयबोधः । तच्चापूर्व न किंचित्फलजनकम् ।
नैयायिकास्तु नित्यकर्मणामपि पापध्वंसादिरूपफलसत्त्वात्पण्डा पूर्व नानी-
तु स्वतः प्रयोजनं नित्यकर्मणः इत्यङ्गीचक्रुः (वाच० ) ( दि० गु० ) ।
 
अपि