2023-10-27 14:27:36 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४३१
 
न्यायकोशः ।
 
वरिच्छा तद्विषयीभूतो योर्थः तन्निष्ठा शक्यसंबन्धरूपा लक्षणा इति ।

यथा रथो गच्छतीत्यादौ तिबाख्यातस्याश्रयत्वे निरूढलक्षणा (दि० ४

पृ० १७५ ) । यथा वा कर्मणि कुशल इत्यादौ । अत्र कुशांल्लाति इति

व्युत्पत्त्या कुशलपदं दर्भादानकर्तरि यौगिकम् । विवेचकत्वसारूप्या-

प्रवीणे वर्तमानमनादिवृद्धव्यवहार परंपरानुपातित्वेनाभिधानवप्रयोजन-

मनपेक्ष्य प्रवर्तते (सर्व० पृ० ३७३ पात० ) । [ख] लक्ष्यताव-

च्छेदकीभूततत्तद्रूपेण पूर्वपूर्वी प्रत्यायकत्वान्निरूढा । यथा अरुणय

पिङ्गाक्ष्या एकहायन्या ( गवा ) सोमं क्रीणाति इत्यादावारुण्यादिप्रकारेण
 

तदाश्रयद्रव्यानुभावकत्वादरुणादिपदस्य आरुण्ये निरूढलक्षणा ( श०
 

[ग] केचित्तु ( शाब्दिकादयः ) व्याकरणकोशादिहेतुतः प्रसिद्धार्थे

प्र० श्लो० २४ टी० पृ० ३१ ) ( लौ० भा० पृ० १७-१८) ।

निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत् (सर्वे० पृ० ३७४ पात ० ) ।

शक्तितुल्या लक्षणारूपा शब्दस्यार्थबोधनशक्तिः इत्याहुः (वाच०) । [घ ]

 
<
निरूढि: - >
१ निरूढलक्षणा । २ काव्यज्ञास्तु प्रसिद्धिः । यथा चतसृष्वपि

ते विवेकिनी नृप विद्यासु निरूढिमागता ( किरात० स० २ श्लो० ४ )
 
FEFFORE
 

इत्यादा वित्याहुः ।
 

 
<
निरूपकत्वम् - >
१ स्वरूपसंबन्धविशेषः । यथा दण्डो घटस्य कारणम्

इत्यादी घटनिष्ठकार्यतानिरूपकत्वं दण्डनिष्ठकारणतायाम् । यथा वा

इत्यादौ भूतलनिष्ठाया आधारताया निरूपकत्वं घटनष्ठा-
भूतले घटः
 

घेयत्वे । यथा वा घटस्य ज्ञानम् इत्यादौ ज्ञाने घटनिष्ठविषयतानिरूपक-

त्वम् । एवमन्यत्रापि निरूप्यनिरूपकभावो ज्ञेयः । अत्रायं नियमः यनि-

( ग० अव० हेतु ० ) । यथा वृक्षाद्विभजेत इत्यादौ विभागस्य वृक्ष-

 
<
निरूपणम् >
१ ज्ञानानुकूलशब्द: । लक्षणस्वरूप प्रामाण्यादिप्रकार कज्ञान-

निष्ठावधितानिरूपकत्वम् । ३ प्रतियोगित्वम् इति केचिदाहुः ।

नुकूल व्यापारः इति फलितोर्थः ( त० प्र० ख० ४ पृ० ३ ) (दायमा ०

श्रीकृष्ण ० ) । यथा अथ शब्दो निरूप्यते ( न्या० म० ४ पृ० १ )
 
.