न्यायकोशः /419
This page has been fully proofread once and needs a second look.
भिव्याहृतगवादिपदोत्तर द्वितीया क्रियाजन्यफलशालित्वादन्यदेव कर्मत्वं
बोधयति । कारकाधिकारीयेण अकथितं च (पा० सू० १/४/५१)
नापादानत्वादिभिन्नधातुप्रतिपाद्यान्वयिधर्मान्तरावच्छिन्नस्यापि कर्म-
दोग्ध पय इत्यादौ गोपदोत्तरद्वितीयाया वृत्तित्वमर्थः । तस्य धात्वर्थ-
संज्ञाविधानात् इति (ग० व्यु० का० २ पृ० ४३ ) । अन्ये तु गां
•
बोध्यम् । अस्य दुहे: गौणे कर्मणि लकारादि । तत्रोक्तम् प्रधानकर्मण्या-
घटकविभागेन्वयः । शाब्दबोधस्तु पूर्ववदेव ज्ञेयः इत्याहुः । अत्रेदं
येये लादीनाडुर्द्विकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च
कर्मणः ॥ इति ( ग० व्यु० का० २ पृ० ४४ ) ( वाच० ) । इदं
चात्रावधेयम् । धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वम् इत्यत्र धात्वर्थ-
तावच्छेदकत्वस्य धातुवृत्तिग्रह विशेष्यांशे साक्षाद्विशेषणत्वरूपत्वम् इत्य
न तादृशं कर्मत्वम् अत्र प्रवर्तते इति । दुह्यते गौः क्षीरमित्यादौ क्षरण
जन्यविभागाश्रयत्वं गवादिनिष्ठमप्रधानकर्मत्वमाख्यातार्थः । अप्रधाने
दुहादीनाम् इत्यनुशासनात् । क्षीरवृत्तित्वस्य धात्वर्थक्षरण एवान्वयः ।
•
निष्ठरणानुकूल व्यापारजन्यक्षरणजन्यविभागाश्रयो गौः इत्याकारको बोधः
आख्यातार्थक्षरणे च धात्वर्थव्यापारान्वयः । तथा च विभागावच्छिन्नक्षीर-
(ग० व्यु० का० २ पृ० ४४ ) । यथा वा तेषु तेषु तु पात्रेषु
दुधमाना वसुंधरा ( हरिवं० श्लो० ८१) इत्यादौ दुहेरर्थः (वाच ० ) ।
अत्रादिशब्द ग्राह्येषूदाहरणान्तरेषु द्विकर्मकत्वादिविशेषो ज्ञेयः । यं सर्व-
शैला: परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि
•
इत्यादौ । यः पयो दोग्धि पाषाणम् पयो घटोनीरपि गा दुहन्ति (भट्टिः)
"
इत्यादौ च दुहेर्द्विकर्मकत्वम् । दुहेरन्यकर्मकत्वाविवक्षायामेककर्मकत्वमपि ।
महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥ (कुमार० स० १ श्लो० २)
•
यथा दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ( मनुः ) इत्यादौ । यथा
वा दुग्ध्वा पयः पत्रपुढे मदीयम् ( रघु० स० २ श्लो० ६५) इत्यादौ
[ग] द्रवद्रव्यविभागानुकूल क्रियानुकूलव्यापार विशेषः । सच