This page has not been fully proofread.

न्यायकोशः ।
 
३६३
 
कप्रत्यक्षविषयत्वे सतीत्युक्त्या शरीरादृष्टेश्वरेच्छादौ नातिव्याप्तिः । यागा-
दिगोचरप्रमावारणाय प्रमान्यत्वे सतीत्युक्तम् ( गौ० वृ० ११ १/१८ ) ।
• अथवा दोषत्वं प्रमाकारणीभूताभावप्रतियोगित्वम् ( मू० म० प्रामा
उत्प० पृ० ३२४ ) । दोषाणां त्रयः पक्षाः रागपक्षः द्वेषपक्षः मोह-
पक्षश्च । तत्राद्यः पक्षः कामः मत्सरः स्पृहा तृष्णा लोभः माया दम्भः
इति । द्वितीयः पक्षः क्रोध: ईर्ष्या असूया द्रोह: अमर्षः अभिमानः
इति । तृतीयः पक्षः विपर्ययः संशयः तर्क: मानः प्रमादः भयम् शोकः
इति ( गौ० वृ० ४।१९। ३ ) ( वात्स्या० ४ । १।३) । ३ व्यावृत्तिव्यवहारै-
तदन्यतरप्रयोजनविघटको धर्मः । स च लक्षणदोषः इति व्यवयिते ।
यथा एकशफत्वस्य गोर्लक्षणस्यासंभवः । स च दोषस्त्रिविधः । अव्याप्तिः
• अतिव्याप्तिः असंभवश्च ( नील० १ पृ० १) । ४ अनुमितितत्करण-
परामर्शे तदन्यतर प्रतिबन्धकयथार्थज्ञानविषयः (त० दी० २ पृ० २४ ) ।
अथवा यद्विषयकत्वेन ज्ञानस्यानुमितितत्कारणीभूतपरामर्शेतदन्यतरप्रति-
बन्धकत्वं सः । स च दोषः पञ्चविधः सव्यभिचारत्वम् ( व्यभि
चार: ) विरोधः सत्प्रतिपक्षः असिद्धिः बाधश्च इति ( चि० २ ०
सश्च इत्यपि व्यवहियत इति विज्ञेयम् । तल्लक्षणादिकं च हेत्वाभासश-
ब्दव्याख्यानावसरे सविस्तरं संपादयिष्यत इत्यत्रैव विरम्यते । ५ विध्युल्लङ्घ
नजन्य: अदृष्टविशेषो दोषः ( प्रत्यवायः ) इति मीमांसका आहुः । गुरु-
तल्पगमनाभक्ष्यभक्षणादिजन्यपापविशेषः
 
इति धर्मज्ञाः पौराणिकाश्च
 
संजगदिरे । ६ काव्यज्ञास्तु अपकर्षप्रयोजको वस्तुनिष्ठो धर्मविशेषः
(वाच० ) । अत्रोच्यते । स्याच्चेतो विशता येन सक्षतारमणीयता ।
अथवा मुख्यार्थहतिः ( काव्य० प्र० उ० ७ श्लो० ४८) । यथा
यतिभङ्गश्रुतिकटुत्वादयः पदादिगतदोषाः संभवन्ति इति वदन्ति । अत्रो-
•चिताथै निरर्थकमवाचकं त्रिधाश्लीलम् ॥ संदिग्धमप्रतीतं ग्राम्यं नेयार्थ-