न्यायकोशः /381
This page has been fully proofread once and needs a second look.
बोध ईश्वरीयतात्पर्यज्ञानस्यैव कारणत्वं कल्प्यते । तेन शुकस्वार्थज्ञानाभा-
वेनाभिसंधापयितृत्वाभावेपि नाभिसंधापयितुरिच्छायास्तात्पर्यत्वानुपपत्तिः
इति ( त० प्र० ख० ४ पृ० ९२ ) । अत्रान्ये मन्यन्ते शुकवाक्ये
•
विनैव तात्पर्यज्ञानम् शाब्दबोधः इति ( मु० ४ पृ० १८९)।
सैन्धवमानयेत्यादौ सैन्धवपदम् आनयनपदार्थे लवणं प्रत्याय
इत्याकारिकाया वाक्यप्रयोक्तरिच्छायाः सत्त्वाल्लक्षणसमन्वयः ( म० प्र०
(४५० ५८) । एवम् श्वेतो धावति इत्याद्यदाहार्यम् (दि० ४ पृ० १८९) ।
अत्र विशेषे तात्पर्यग्राहकाणि प्रकरणान्येव भोजनादीनि गमनादीनि वा
विज्ञेयानि ( म० प्र० ४१०५०) । अत्रोक्तं भर्तृहरिणा संयोगो विप्रयो-
गश्च साहचर्ये विरोधिता। अर्थ: प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥
सामर्थ्य मौचिती देश: कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे
विशेषस्मृतिहेतवः ॥ इति । अत्रोदाहरणानि तु सशङ्खचको हरिः इत्या-
दीनि ज्ञेयानि ( काव्यप्र० उ० २) । अत्रोक्तं कैश्चित् । प्रत्यक्षोपस्थिते-
नापि कलायेन तात्पर्यग्रहसहकारिणमासाद्य पचति इत्यत्रान्वयबोधः इति
( न्या० सि० दी० पृ० ४६ ) । कलायं शमीधान्यम् मुद्द्रादि । अत्र
इत्याहु: । केचित्त सैन्धवमानयेत्यादौ नानार्थस्थल एव तात्पर्यसंशयादेः
मतमेदाः । शशधरादयः शाब्दबोधं प्रति तात्पर्यज्ञानस्य कारणत्वं नास्त्येव
संभवेन तत्रत्यशाब्दबोध एव तात्पर्यनिश्चयों हेतुः । न तु ध
कुम्भपरम् लक्षणया पटपरं वा इति संशये घटशाब्दबोधाभावात् सर्वत्र
घटादिशब्दबोघे हेतुः इत्याहुः । परे तु घटादिशाब्दस्थलेपि घटपदम्
तात्पर्यनिश्चयः कारणम् इत्याहु: ( म० प्र० ४ पृ० ५८) । वस्तुतस्तु
•
तीच्छयोच्चरितत्वरूपतात्पर्यज्ञानस्यैव हेतुत्वम् (त०प्र० ख० ४ पृ० १४)
शाब्दसामान्य एकपदार्थप्रकारकापरपदार्थ विशेष्यकप्रती-
नानाथनुरोधेन
३२७
P
।
●
राजपुत्रसंसर्गप्रतीतीच्छयोच्चरिते राज्ञ इत्यस्य पुरुषपदेन
साकावारणाय यत् पदं यत्पदव्यतिरेकेण तात्पर्यविषयीभूतार्थान्वयान-