This page has not been fully proofread.

२८२
 
न्यायकोशः ।
 
शब्दानुमितिः । ततोर्थप्रत्ययः इति बोध्यम् ( म० प्र० ४ पृ० ६६) ।
क्रियाविशेषे चोच्यते । बाह्यैर्विभावयेलिङ्गैर्भावैरन्तर्गतं
 
नृणाम् ।
 
स्वरवर्णे
 
•ङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ॥
• नेत्रवत्र विकारैश्च गृह्यतेन्तर्गतं मनः ॥ ( मनु० ) इति । बायोस्तु ।
स्पर्शनं चेष्टा व्यूहनं रौक्ष्यमेव च इति याज्ञवल्क्येन तस्या वायुकार्यत्व-
मुक्तम् ( वाच ० ) । चेष्टा च शब्दस्मारकतया शब्दानुमापकतया
प्रमायामुपयोगिनी । तथाहि । इयं चेष्टा तावद्विविधा कृतसमया अकृत- ।
समया च । तत्र कृतसमया लिप्यादिवदभिप्रेतं शब्दमेव स्मारयति न ।
किंचित्प्रमापयतीति लिपिरिव सापि न प्रमाणम् । अयमर्थः । शङ्खध्वनी
• त्वया आगन्तव्यमिति शङ्खध्वनि श्रुत्वा आगच्छति । यदा मया त
 
वा
 
क्रियते तदा त्वयासौ ताडनीय इति तथाविधकरणे ताडयति । तथा च /
अनया चेष्टया केवलं पदार्थाः स्मार्यन्ते न तु तेषां संसर्गोपि बोध्यते ।
• स्मारयन्ती सती प्रयोज्यं प्रवर्तयति ( त० व० पृ० १००-१०१)।
इति प्रमितिविरहान्न प्रमाणत्वमस्याः इति । अन्ये तु मानसं बोधमाई',
( त० व० पृ० १०१ ) । अकृतसमया तु चेष्टा प्रयोजकाभिप्राय /
 
PAR
 
एवं च चेष्टा न प्रमाणान्तरम् इति नैयायिकाः ।
 
चेष्टापि
 
तान्त्रिकास्तु
 
प्रमाणान्तरम् इत्याहु: ( म० प्र० ४ पृ० ६६ ) (सि० च० ) ।
चैतन्यम् - [१] [क] ज्ञानवत्वम् ( दि० ११२ ) । यथा शरीरस्य न
ज्ञानेच्छा यत्नवत्वम् ( ल० व० ) । यथा आत्मनश्चैतन्यम् । अत्र श्रुतिः
चैतन्यं मृतेषु व्यभिचारतः ( भा०प० श्लो० ४९ ) इत्यादौ । [ख]
चैतन्यमात्मनो विद्यात् इति ( वाच ० ) । [२]
प्रतिबिम्ब: ( चिच्छाया ) चैतन्यम् इति सांख्या: । [३] बुद्धयादा
त्रात्माध्यासात् ( चिच्छाया चित्प्रतिबिम्ब: ) चैतन्यमिति मायावादिनो
वदन्ति । अत्रोच्यते चैतन्यं परमाणूनां प्रधानस्यापि नेष्यते । ज्ञान किये
जगत्कर्यो दृश्येते चेतनाश्रये ॥ इति ( वेदान्तका० ) ( वाच० ) /
चैतन्यं दृक्रियारूपं तदस्त्यात्मनि सर्वदा । सर्वतश्च यतो मुक्तौ श्रूयते
 
चितौ
 
सर्वतोमुखम् ॥ ( सर्व० सं० पृ० १८२
 
शैव० ) ।
 
250
 
22
 
बुद्ध्यादे