2023-10-25 06:34:17 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२७७
 
स्तेजोवयवैरारब्धं च चक्षुः ( प्रशस्त ० १ तेजोनि० पृ० ६) ।

२ तेजः । यथा सूर्यश्चक्षुषे ( ताण्ड्यब्रा० ) इत्यादौ (वाच० ) ।

 
<
चण्डिका>
( कल्याणीशब्दे दृश्यम् ) ।
 
-
 
6
 

 
<
चतुरशुकम्>
( जन्यद्रव्यस्यावयवः ) चतुर्भिरुयणुकैर्यदुत्पद्यते तत् ( त०

दी० १ पृ० ९) । एवं पञ्चाणकाम् (त० कौ० १पृ० ३ ) । नव्या

नास्तिकास्तु संयुक्ताणुचतुर्विंशतिकं चतुरणुकम् इत्याहुः ( प० मा० ) ।

 
<
चतुर्थी>
(विभक्तिः ) तत्तद्धात्वर्थे संप्रदानत्वादिबोधिका विभक्तिः (श०

प्र० श्लो० ६५ पृ० ७५ ) । यथा विप्राय गां ददातीत्यादौ विप्रायेति

चतुर्थी। चतुर्थ्यर्थश्च [१] संप्रदानम् । तच्च क्रियाकर्मीभूतवस्तुनिष्ठ-

स्वत्वभागित्वेनोद्देश्यम् । यथा विप्राय गां ददाति राज्ञे दण्डं ददातीत्यादौ

अत्र दानेन गोदण्डादौ यजमानस्वत्व-

निवृत्तौ विप्रराजादेः स्वत्वोत्पादात् गोदण्ड निष्ठस्वस्वभागित्वेन विप्र-

राजोद्देश्यकगोदण्डकर्मकदानकर्ता इति बोध: ( म० प्र० पृ० ६) ।

[२] उद्देश्यत्वम् । यथा एषोर्ध्यः शिवाय नमः इत्यादौ चतुर्थ्यर्थः

(ग० व्यु० का० ४ पृ० ९९ ) । [३] तादध्येम् । यथा यूपाय दारु

इत्यादौ चतुर्ध्यर्थः । अत्र तादर्थ्ये चतुर्थी वाच्या इति वार्तिकेन चतुर्थी ।

[४] संबन्धः । यथा नारदाय रोचते कलह वैश्याय शतं धारय-

तीत्यादौ । नारदायेत्यत्र रुच्यर्थानां प्रीयमाणः (पा० १/४/३३ ) इति

सूत्रेण संबन्धमात्रबोधिका चतुर्थी उपपदविभक्तिरेव ( म०प्र०

पृ० ६ ) । वैश्यायेत्यत्र धारेरुत्तमर्णः (पा० १/४/३५) इति सूत्रेण

संबन्धमात्रे चतुर्थी । विष्णवे नमः इत्यादौ च चतुर्थ्यर्थः संबन्धः ।

अत्र नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च ( पा० २।३।१६ ) इति सूत्रेण

विषयित्वम् । यथा पुष्पेभ्यः स्पृहयति पुत्राय क्रुद्ध्यतीत्यादौ चतुर्थ्यर्थः ।

संबन्धार्थ चतुर्थी उपपदविभक्तिरेव ( म० प्र० पृ० ६ ) । [५]

पुष्पेभ्य इत्यत्र स्पृहाविषयपुष्पस्य स्पृहेरीप्सितः (पा० सू० १/४ । ३६)

इत्यनेन संप्रदानत्वाच्चतुर्थी । तदर्थो विषयित्वम् । तस्येच्छारूपक्रियाया-

मन्वयः । पुत्रायेत्यत्र क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोपः (पा०
 
3