2023-10-23 16:19:59 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२६९
 
गुरुत्वसिद्धि: ( दि० गु० पृ० २३२ ) । वल्लभाचार्यास्तु गुरुत्वं प्रत्यक्षम्

( स्पार्शनविषयः ) इत्याहुः ( प० मा० ) ( वै० उ० ४।१।१० ) ।

लीलावतीकारस्तु भस्मीभावदशायां गुरुत्वापकर्षदर्शनात्तदन्यथानुपपत्त्या

गुरुत्वमपि पाकजं मेने । आचार्यास्तु कारणगुणपूर्वकमध्ये गुरुत्वे

। पाकजत्वविशेषणमप्रवेशयन्तो गुरुत्वं पाकजं नेत्याविश्चक्रुः (प० मा० ) ।

सांख्यास्तु गुरुत्वं तमोगुणस्य धर्म इत्याहुः (वाच ० ) । अर्वाचीना हूण-

विद्याविशारदास्तु पृथिव्यादिगताकर्षणशक्तिविशेषेणैव पतनस्योपपत्तावलं

गुरुत्वेन इति मेनिरे । गुरुत्वं जलभूम्योः पतनकारणम् अप्रत्यक्षम्

पतनकर्मानुमेयम् संयोगप्रयत्नसंस्कारविरोधि । तस्य चाबादिपरमाणु-

रूपादिवन्नित्यानित्यत्वनिष्पत्तयः इति ( प्रशस्त० २ पृ० ५२ ) ।

अत्रेदं विज्ञेयम् । जन्यगुरुत्वमेव पतनं प्रति कारणम् इति कार्यकारणभाव-

कल्पनात् आकाशादीनां गुरुत्वाभावो नैव । परमाण्वादीनां तु जन्य-

गुरुत्वाभावेन पतनासंभवः । पार्थिवजलपरमाण्वोर्गुरुत्ववत्तया तस्य मालादि-

देशसंयोगे पतनप्रतिबन्धकत्वाकल्पनेपि न परमाणुपतनापत्तिश्च इति

(राम० १११ पृ० ५६) । गुरुत्वं स्पर्शविशेषः प्रत्यक्षसिद्ध इति
 

बल्लभाचार्याः (नैयायिकविशेषाः ) आहुः ।
 

 
<
गुरुधर्म:- >
[क] अव्यावर्तकपदार्थघटितो धर्मः । यथा प्रमेयघट इत्यादौ

घटत्वमपेक्ष्य प्रमेयत्वविशिष्टं घटत्वं गुरुधर्मः । [ ख ] अवच्छेदकत्वाद्य-

प्रयोजकपदार्थघटितो धर्मः । यथा पर्वतो वहिमानीलधूमादित्यादौ

नीलघूमत्वं गुरुधर्मः । अत्र नीलधूमवं शुद्धधूमत्वमपेक्ष्य गुरुधर्म इति

व्याप्यतावच्छेदकं न भवतीति विज्ञेयम् । यथा वा कम्बुप्रीवादिमान्ना-

स्तीत्यादौ कम्बुग्रीवा दिमत्वं गुरुधर्मः । अत्र च न्यायः संभवति लघौ

धर्मेवच्छेदकेतिप्रसङ्गानापादके गुरुधर्मो नावच्छेदकः इति । तेन च

लघोर्घटत्वाभावी प्रतियोगितायामवच्छेदकत्वसंभवे कम्बुग्रीवा दिमत्त्वं

गुरुतया नावच्छेदकम् इति बोध्यम् । [ग] बहुपदार्थोपस्थितिसापेक्षो

धर्मः । यथा घूमत्वापेक्षया नीलधूमत्वं गुरुधर्मः इत्यादौ ।

 
<
गुरुभम् >
पुष्यनक्षत्रम् (पु० चि० पृ० ३५७) ।
 
W