This page has not been fully proofread.

२४५
 
न्यायकोशः ।
कौमुदी—आश्विन्यां पौर्णमास्यां च अक्षैर्जागरणं निशि । कौमुदी सा समा-
ख्याता कार्या लोकविभूतये ॥ ( पु० चि० ० ३०२ ) ।
 
समागतः
 
इत्यत्र तादृशप्रयोगावगमः
 
क्त्वा – ( प्रत्ययः ) पूर्वकालीनत्वम् कर्ता च ( तर्का ० ४ पृ० ११ ) ।
यथा भुक्त्वा व्रजतीत्यादौ भोजने व्रजनपूर्वकालीनत्वं क्त्वाप्रत्ययार्थः
( त० प्र० ४ पृ० ७० - ७२ ) । अत्र पूर्वत्वं च संनिहितक्रिया-
पेक्षया बोध्यम् । क्रियापूर्वकालीनत्वं च क्रियाप्रागभावकालवृत्तित्वम्
क्रियोत्पत्तिकालीनध्वंसप्रतियोगिकालवृत्तित्वं वा । तेन भुक्त्वा ब्रज-
तीत्यत्र गमनप्रागभावावच्छिन्नकालवृत्तिभोजनकर्त्रमिन्नो व्रजति इत्यर्थः।
अत्र कालस्तापर्यवशात् व्यवहिताव्यवहितसाधारणो बोद्धव्यः । तेन
पूर्वस्मिन्नन्दे गत्वास्मिन्नब्दे
(तर्का० ४ पृ० ११ ) । केचित्तु अव्यवहितपूर्वकालीनत्वमित्याहुः ।
अत्र अव्यवधानं च क्रियान्तरानुकूलविलम्बाभाववत्वम् । केचित्तु तदु-
त्पत्तिक्षणोत्पत्तिकध्वंसप्रतियोगिकालत्वमेव तदव्यवहित पूर्वकालत्वम् ।
कालश्चात्र यावता कालेन भोजनानन्तरं व्रजनं तावान् स्थूलकालोपाधि-
विंशिष्य निवेशनीयः । तेन नासंभवः इत्याहुः ( त० प्र० ख० ४
पृ० ७० ) । प्राभाकरास्तु समानकर्तृकत्वमेव क्त्वाप्रत्ययार्थ इत्याद्दुः ।
मणिकृतस्तु आनन्तर्यमेव तदर्थ इत्याहुः । अन्ये तु कचित् सामाना-
विकरण्यविशिष्ट व्याप्यत्वमपि क्वार्थ इत्याहुः । अधीत्य तिष्ठतीत्यत्र
• निरन्तराध्ययनशालिन्येव तथा प्रयोगात् अयमर्थ आवश्यकः । अत्र
व्याप्तिश्च कालिकी । तथा च अध्ययनसामानाधिकरण्यविशिष्टाध्ययन-
व्याप्यस्थितिमान् इत्यन्वयधीः ( त० प्र० ख० ४ पृ० ७२ ) । अपरे
तु आश्रय एव क्त्वा प्रत्ययार्थ इत्याहुः । अयं भावः । क्त्वाप्रत्ययस्य
• कृत्प्रत्ययान्तर्गतत्वात् सामान्यशक्त्या आश्रयोपस्थितेः कृत्प्रत्ययेन संभवात्
• मुखं व्यादाय स्वपिति इत्यादौ स्वापपूर्वकालीनत्वस्य मुखव्यादाने अस-
वेपि व्यादानाश्रये स्वापाश्रयत्वस्य विशिष्टे वैशिष्ट्यम् इति न्याव
बोध: ( त० प्र० ख० ४ पृ० ७२) । अन्ये वाहुः । स्वकर्तृकत्वस्वो-
त्तरत्व एतदुभयसंबन्धेन यत्किंचिद्विशिष्टं क्त्वा प्रत्ययार्थः । यथा ओदनं